This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
(वाचस्पत्यम्) । नान्तरीयविधयान्यसिद्धिश्च यथा विप्रवधप्रायश्चित्तेन तद् नान्तरीयक-

विधया अवगूरणदण्डनिपातनप्रायश्चितसिद्धिः । नान्तरीयकत्वं च तत्सत्तासमनियत-

सत्ताकत्वम् । (ख) अन्यार्थप्रवृत्तस्य नान्तरीयकफलजनकत्वमित्यपि केचित् ।
 
४५
 
-
 
-
 

 
अनुसन्धानम्, अनुसन्धान
अनु पश्चात् – अर्थाद् वाक्यश्रवणानन्तरमर्थस्य सम्यक् प्रकारेण

धारणं संग्रहणम् । एतच्चानुसन्धानं वेदान्तवाक्यानां श्रवणरूपं तथा मननरूपं च ।

यथा - इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् । युक्त्या सम्भावितत्वानुसन्धानं मनतं

तु तत् (प० द० १ ।५३) । अत्र श्रीरामकृष्णः - वाक्यैस्तत्त्वमस्यादिवाक्यैरर्थानुसन्धानं

तेषां वाक्यानामर्थस्य जीवब्रह्मणोरेकत्वलक्षणस्यानुसन्धानं श्रवणं भवेत् । युक्त्या

शब्दस्पशार्दयो वेद्या इत्यादिना परापरात्मनोरेवं युक्त्या सम्भावितैकता इत्यन्तेन ग्रन्थ-

संदर्भेणोक्तप्रकारेण सम्भावितत्वानुसन्धानं श्रुतस्यार्थस्योपपाद्यमानत्वज्ञानं यदस्ति तत्तु

मननमित्युच्यते । इत्यद्वैतवेदान्तिनः । २. उपनयः = यो यो धूमवान् स स वह्निमान्

यथा महानसम् इत्युदाहरणज्ञानानन्तरं तथा चायं पर्वत इत्युपनयः इति नैयायिकाः ।

३. अन्वेषणं गवेषणा शोधकार्यमित्याधुनिकाः ।
 

 
अनुस्मृतिः
 
1
 
, अनुस्मृति
स्वाकारस्य बाह्यतया अध्यवसानम् । यथा - अनुभवम्

उपलब्धिम् अनूत्पद्यमानं स्मरणमेवानुस्मृतिः (ब्र० सू० २।२।२५ शा० भा०) ।

यथा च - अयमर्थः विकल्पप्रत्ययोऽयं विकल्पश्च स्वाकारं बाह्यतयाध्यवस्यति, न

तु तत्त्वतः पूर्वापरौ क्षणौ तयोः सादृश्यं वा गृह्णाति (तत्रैव भाम० वैनाशिक-

मतखण्डने)।
 
-
 

 
अनृतम् - , अनृत
१. अज्ञानम् । यथा- छान्दोग्ये अष्टमाध्याये - तद् यथापि हिरण्यं

निधिनिहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य

एतं ब्रह्मलोकं न विन्दन्त्यनृतेन प्रत्यूढ़ा इति श्रुतिर्ब्रह्मज्ञानप्रतिबन्धकत्वेनानृतं ब्रुवाणा

तादृगज्ञाने प्रमाणम् । न च ऋतशब्दस्य ऋतं पिबन्तावित्यत्र सत्कर्मणि प्रयोगदर्शनात्

ऋतं सत्यं तथा धर्म इति स्मृतेश्च ऋतशब्दस्य सत्कर्मपरत्वमिति वाच्यम् ।..... अनृत-

नीहारादिशब्दानां दुष्कर्मपरत्वे श्रुत्यन्तरोक्तजीवेशभेदकत्वोपादानत्वादिविरोधाच्च ।

तस्मादनृतेन प्रत्यूढ़ा नीहारेण प्रावृताः तम आसीत् माया तु प्रकृतिं विद्यात् अजामेकां

लोहितशुक्लकृष्णाम् अविद्यायामन्तरे वर्तमानाः भूयश्चान्ते विश्वमायानिवृत्तिरित्याद्याः

श्रुतयो वर्णिता अज्ञाने प्रमाणमिति स्थितम् (अ० सि० अ० १ प० श्रुत्लु०) ।

इत्यद्वैतवेदान्तिनः। द्वैतिनस्तु- मायानृताविद्यादिशब्दानां सत्यप्रकृत्यादिपरत्वमेव

युक्तम् । न तु भावरूपाज्ञानपरम् (न्यायामृते) ।