This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
मुक्तकृत्स्नकर्माणोऽवरोहन्त्याहोस्वित्
 
सानुशया इति । ..... तद् य इह रमणीयचरणा
....इति चरणशब्देनानुशयः सूच्यत इति वर्णयिष्यति (तत्रैव शा० भा० ) ।
 
४४
 
यथा च - अनुशयोऽत्र दत्तफलस्य कर्मणः शेष उच्यते (तत्रैव भाम० ) । यथा
च- कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् । नहि
कर्मणि सम्भवति शीलाद् योन्यापत्तिर्युक्ता । न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां
रंहितुमर्हति (ब्र० सू० ३।१।१० शा०भा० ) । अक्रोधः सर्वभूतेषु कर्मणा मनसा
गिरा । अनुग्रहश्च ज्ञानं च शीलमेतद् विदुर्जनाः इति स्मृतेः । शीलमाचारोऽनुशयाद्भिन्नः ।
तथाप्यस्याशयाङ्गतयाऽनुशयोपलक्षणत्वं कार्ष्णाजिनिराचार्यो मेने (तत्रैव भाम० ) ।
यथा - यथाग्निना हेममलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं
विधूय । मद्भक्तियोगेन भजत्यथो माम् (भाग० ११ ।१४।२५) । अयं च अनुशयः
एकभविकः अनेकभविकश्चेति (ब्र०सू० ३।१।८ वे० क० त०) । एकभविकोऽनेकभ-
विकश्चानुशयः । सविशदं पातञ्जलयोगेसूत्रे वर्णितः । यथा च कर्तारमनुशेते
अनुगच्छतीत्यर्थानुशयः (ब्र०सू० ३ ।१।८ वे०क०त० ) । २. चरणम् आचरणमित्यर्थः ।
यथा - चरणशब्देनानुशय सूच्यत इति वर्णयिष्यति (ब्र० सू० ३/१/८ शा० भा० ) ।
३. शङ्का - पूर्वपक्षिणोऽनुशयबीजमुन्मूलयति (त० प्र० १ प० अभि० वादे० न०
प्र० विषमटिप्पण्याम्) ।४. दु:खम्, पश्चात्तापः, चिन्ता च । यथा - श्रेष्ठादिविभागेऽपि
पित्रा ज्येष्ठादिभ्यो दत्तेऽन्यैरनुशयो न कार्यः (वीरमित्रोदये दायभागे विभागकाल-
कर्तृनिर्णये)।
 
-
 
-
 
अनुशयी - पूर्वजन्मकृतकर्मवासनाश्रयरूपाशयवान् । यथा - अन्यैर्जीवैर-
धिष्ठितेषु ब्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखभाजो भवन्ति
(ब्र० सू० ३।१ । २४ शा० भा० ) । दुर्निष्प्रतरम् इति दुःखेन निःसरणं ब्रूते न विलम्बेनेति
मन्यते पूर्वपक्षी (तत्रैव भाम०) । विशदज्ञानाय अनुशयशब्दोऽपि द्रष्टव्यः ।
 
अनुषङ्ग: १. परस्परसम्बन्धः, २. अविनाभाव:- यथा सुखं दुःखानुषङ्गं
समवैत्यादौ (त० भा० ४१) ३. नेदीयः स्थानान्तरस्थितस्य (पदस्य) क्वचिदनुसन्धानम्
(दि० ४।१८८)। यथा पञ्चावयववाक्येषूपनयवाक्यस्थस्यायमिति पदस्य तस्माद्
वह्निमान् इति निगमनवाक्येऽनुषङ्गः । ३. (क) प्रसङ्गः । स चान्योद्देशेन प्रवृत्तस्य
तन्नान्तरीयकविधयान्यसिद्धिः । यथा- अयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अनुपपत्तिं
चान्ये प्रत्यवायस्य मन्वते । नित्यक्रियं तथा चान्ये ह्यनुषङ्गयुतां श्रुतिम् इत्यादौ