2023-03-12 05:00:16 by ambuda-bot
This page has not been fully proofread.
शाङ्कवेदान्तकोशः
नैयायिकाः । प्रत्यक्षानुमानरूपेति वैशेषिकसौगतौ । सम्भवरूपा ऐतिहह्यरूपा चेति
पौराणिकाः । चेष्टारूपापि चेत्यालङ्कारिकाः (दि० १ /१३, सि० च० २०) (न्या०
को०) । यथा च - अनुभूतिर्हि स्वसद्भावेनैव कस्यचिद् वस्तुनो व्यवहारानुगुणत्वापादन-
स्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोऽनुभवितुरात्मनो धर्मविशेषः
( स० द० सं० रामानुजीयाः) ।
-
-
अनुमन्ता - अनुमोदिता । यथा - अनुमन्ता चानुमोदनमनुमननं कुर्वत्सु तत्-
क्रियासु परितोषस्तत्कर्तानुमन्ता च (गी० १३ । २२ शा० भा०) । यथा च - अनुमन्ता
च कार्यकारणप्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव सन्निधिमात्रेण तदनुकूलत्वादनुमन्ता
(तत्रैव म० सू०) । यथा च - तथानुमन्ता अनुमोदितैव सन्निधिमात्रेणानुग्राहकः"साक्षी
चेता केवलो निर्गुणश्च इत्यादिश्रुतेः (तत्रैव श्रीधर्याम्) ।
-
अनुमानम् - १. अनुमितिकरणमनुमानम् । अनुमितिश्च व्याप्तिज्ञानत्वेन
व्याप्तिज्ञानजन्या । व्याप्तिज्ञानानुव्यवसायादेस्तत्त्वेन तज्जन्यत्वाभावान्नानुमितित्वम्
(वे० प० २प्र०) । अत्र अनुमीयतेऽनेनेति व्युत्पत्त्या येन व्याप्तिज्ञानेन अनुमितिप्रमोत्पद्यते
तद्व्याप्तिज्ञानमनुमानमिति लक्षणम् । अव्युत्पन्नलोकप्रसिद्धानुमानशब्दवाच्यमनुमानं
लक्ष्यम् । एवमनुमानं लक्षणं तथा लक्ष्यञ्च (विशेषज्ञानार्थं वे० प० २ प्र० द्रष्टव्यम्) ।
२. स्मृतिः । यथा प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः । (अपि च संराधने
प्रत्यक्षानुमानाभ्याम् (ब्र० सू० ३।२।२४ शा० भा० ) ।
अनुव्यवसाय: - ज्ञानस्य ज्ञानं कथं भवतीत्यस्य समाधानार्थं नैयायिका
अनुव्यसायं मन्यन्ते । अयं घट इति ज्ञानानन्तरम् अहं घटं जानामि अथवा घटमहं
जानामिति ज्ञानमनुव्यवसाय: । अनेन ज्ञानस्य ज्ञानं जायते । अयमनुव्यवसाय:
आत्मधर्मः। भाट्टा एतन्न सहन्ते । अतो भाट्टमतेऽयं घट इति ज्ञानानन्तरं ज्ञाते घटे
ज्ञाततारूपो धर्मो भासते । अयं ज्ञातताधर्मो ज्ञानस्य ज्ञानम् अर्थापत्त्या जनयति ।
यदि पूर्वं ज्ञानं न स्यात् तदा कथं ज्ञातता स्यादित्येवार्थापत्तिः । व्यवहारे भाट्टनय
इति रीत्या अद्वैतवेदान्तिनोऽप्येवमेव मन्यन्ते । यतो हि निर्धर्मिणि आत्मनि
कथमनुव्यवसाय आत्मधर्मो भवेत् । यथा = घटैकाकारधीस्था चिद् घटमेवावभासयेत् ।
घटस्य ज्ञातता ब्रह्मचैतन्येनावभासते (प० द० ८।४) ।
-
अनुशयः भोगादवशिष्टं शुभाशुभं कर्म । यथा - कृतात्ययेऽनुशयवान्
दृष्टश्रुतिभ्यां यथेतमनेवं च । (ब्र० सू० ३।११८) इति सूत्रे शा० भा० - किं निरनुशया-