2023-03-20 05:14:57 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
-
-
धर्माः इति पञ्चपादिकावचनाच्च (त० प्र० स्व० प्र० नि०) । २. स्मृतिभिन्नं ज्ञानम् ।
(तच्च बुद्धिरूपम्) यथा अयं घट इति चाक्षुषप्रत्यक्षमनुभवः । अनुभवामि इत्यनुगत-
प्रतीतिसिद्धावनुभवत्वजातिमान् (न्या० म० १ । २ । त० कौ० १ । ६) (न्या० को०) ।
यथा च – स च द्विविधः यथार्थानुभवः अयथार्थानुभवश्चेति । तद्वति तप्रकारकानुभवो
यथार्थः । अयमेव प्रमा इत्युच्यते । तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । अयं
च अप्रमेत्युच्यते । यथार्थानुभवश्चतुर्विधः- प्रत्यक्षम् अनुमितिः उपमितिः शब्दश्चेति ।
एवमेव यथार्थानुभवकारणमिति चतुर्विधम् - प्रत्यक्षम् अनुमानम् उपमानम् शब्द इति -
(त० सं० प्र० ख०) । एवमेव अयथार्थानुभवोऽपि चतुर्विधः, तत्कारणं चापि
चतुर्विधम् । इति नैयायिकमते । यथा च - अनुभवो द्विविधः- प्रमा अप्रमा चेति ।
तत्र प्रमारूपोऽनुभवोऽपि पुनर्द्विविधः - भ्रमः संशयश्चेति (त० कौ० ६।२ ) । इति
वैशेषिकमते । यथा च - चित्तस्य विषयाकारा वृत्तिः विषयानुरूपत्वं वा । यथा -
वृत्तिसारूप्यमितरत्र (पा० यो० सू० १।४) । अत्र योगवार्त्तिके – गृहीतानिन्द्रियैरर्थान्
आत्मने यः प्रयच्छति । अन्तःकरणरूपाय तस्मै विश्वात्मने नमः । इति विष्णु-
पुराणादिभ्यः । एतदुक्तं भवति – यद्यपि पुरुषश्चिन्मात्रोऽविकारी, तथापि
बुद्धेर्विषयाकारवृत्तीनां पुरुषे यानि प्रतिबिम्बानि तान्येव पुरुषस्य वृत्तयः । इति
पातञ्जलाः । यथा च - सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । तस्मात्
त्रिविधं करणं द्वारि द्वाराणि शेषाणि । एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छति । सां० का० ३५, ३६ इति सांख्यविदः ।
४२
-
अनुभावः
१. अनुभवार्थ इव अनुभावार्थोऽपि इत्यद्वैतवेदान्तिनः । एतदर्थ-
मनुभवशब्दो द्रष्टव्यः । २. कर्मपुद्गलानां स्वकार्यकरणे सामर्थ्यविशेषोऽनुभाव इति
आहर्ता : (स० द० सं०) । ३. रसनिष्पत्तौ तथाविधभ्रूभङ्गादिचेष्टादिविशेषोऽनुभावः ।
यथा उद्बुद्धं करणैः स्वैः स्वै बहिभावं प्रकाशयन् । लोके यः कार्यरूपः सोऽनुभावः
काव्यनाट्ययोः (सा० द० ३ १०) । ४. सामर्थ्यं लोके यथा - महानुभावः ।
-
अनुभूतिः
१ . अनुभवविशेषः । एषा प्रत्यक्षानुमानोपमानशब्दरूपा अर्था-
पत्तिरूपा, अनुपलब्धिरूपा च यथा च - अनुभूतिः स्वयंप्रकाशा अनुभूतित्वाद् यन्नैवं
तन्नैवं यथा घट इत्यनुमानम् (त० प्र० स्व० प्र०नि०) । इत्यद्वैतवेदान्तिनो भाट्टाश्च ।
एषा केवलं प्रत्यक्षात्मिकेति चार्वाकाः । एषा प्रत्यक्षानुमानोपमानशाब्दरूपा इति