2023-03-12 05:00:16 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
४१
ब्रह्मविषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि । एतेषां नित्यादीनां बुद्धि-
शुद्धिः परमं प्रयोजनम् । उपासनानं तु चित्तैकाग्र्यम् । तमेवात्मानं वेदानुवचनेन
ब्राह्मणा विवदिषन्ति यज्ञेन इत्यादिश्रुतेः । तपसा कल्मषं हन्ति इत्यादि स्मृतेश्च ।
नित्यनैमित्तिकयोरुपासनयोस् त्ववान्तरफलं पितृलोकसत्यलोकप्राप्तिः कर्मणा पितृलोको
विद्यया देवलोक इत्यादिश्रुतेः । साधनानि नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोग-
विरागशमदमादिषट्कसम्पत्तिमुमुक्षुत्वानि । नित्यानित्यवस्तुविवेकस्तावद् ब्रह्मैव नित्यं
वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् । ऐहिकानां स्रग्चन्दनवनितादिविषय-
भोगानां कर्मजन्यतयाऽनित्यत्ववदामुष्मिकाणामप्यमृतादिविषयभोगानामनित्यतया
तेभ्यो नितरां विरतिरिहामुत्रार्थफलभोगविरागः । शमादयस्तु शमदमॊोपरतितितिक्षासमाधान-
श्रद्धाख्याः (वे० सा० ७-८) । यथा च - श्रवणादिषु च मुमुक्षूणामधिकारः । काम्ये
कर्मणि फलकामस्याधिकारित्वात् । मुमुक्षूणां च नित्यानित्यवस्तुविवेकस्येहामुत्रार्थ
फलभोगविरागस्य शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः । अन्तरिन्द्रियनिग्रहः
शमः । बहिरिन्द्रियनिग्रहो दमः । विक्षेपाभाव उपरतिः । शीतोष्णादिद्वन्द्वसहनं तितिक्षा ।
चित्तैकाग्र्यं समाधानम् । गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा । अत्रोपरम-शब्देन
संन्यासोऽभिधीयते । तथा च संन्यासिनामेव श्रवणाधिकार इति केचित् । अपरे तु
उपरमशब्दस्य संन्यासवाचकत्वाभावाद् विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात् ।
जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात् सर्वाश्रमसाधारणं श्रवणादिविधाना॑मत्याहुः ।
सगुणोपासनमपि चित्तैकाग्र्यद्वारा निर्विशेषब्रह्मसाक्षात्कारे हेतुः । तदुक्तम् - निर्विशेषं
परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः । १. वशीकृते
मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् । २. (वे० प०
१ प०) विषयो जीवब्रह्मैवयं शुद्धचैतन्यं प्रमेयम् । तत्रैव वेदान्तानां तात्पर्यात् ।
सम्बन्धस्तु तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत्रमाणस्य च बोध्यबोधकभावसम्बन्धः ।
प्रयोजनं तु तदैक्यप्रमेयगताज्ञाननिवृत्तिः स्वरूपानन्दावाप्तिश्च तरति शोकमात्मवित्
इत्यादिश्रुतेः ब्रह्मविद् ब्रह्मैव भवति इत्यादि श्रुतेश्च (वे० सा० ९) ।
-
अनुभवः
१. विषयाकारा अन्तःकरणवृत्तिरनुभवः इत्यद्वैतवेदान्तिनः ।
अन्तःकरणवृत्तिश्च – यथा- यथा जलं प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्राधाकारेण
परिणमते एवमेव इन्द्रियप्रणाल्या अन्तःकरणं बहिर्निगत्य विषयाकारेण परिणमते ।
तादृशपरिणामवृत्त्या च विषयगतमज्ञानं निवारयंतीति अन्तःकरणस्य भवनादनु-
भवत्वम् । स्मृतौ तु विषयसन्निकर्षाभावाद् न विषयाकारता । अतः स्मृतिभिन्ने ज्ञाने