This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
लब्धेरप्यनुपलम्भात् तदावरणानुपलब्धेरभावसिद्धौ तद्विपरीतस्य तदावरणस्यो-
पपत्तेस्तन्नित्यत्वमेव स्यादिति (त० सं० गङ्गाटीकायाम्) ।
 
४०
 
-
 
अनुपानीयम् - समीपस्थमुदकम् । यथा - अनुपानीयं समीपस्थमुदकम् । हन्त
गृहाणानुपानमित्युक्तः प्रत्युवाच (छा० उप० १/१०/३ शा० भा० ) ।
 
-
 
" अनुपोष्य - अदग्ध्वा । यथा - समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य। (ब्र०
सू० ४।२।७) । अनुपोष्य चेदम् अदग्ध्वाऽत्यन्तमविद्यादीन् (तत्रैव शा० भा०) ।
उपपूर्वाद् उष् दाहे इत्यस्मादुष्येति प्रयोगः (तत्रैव भाम०) वस् निवासे इत्यस्माद्
धातोरिदं न भवति । अतो व्याचष्टे उष् दाहे इति (तत्रैव वे० क० त० ) ।
अनुबन्धः - १. ग्रन्थादौ अनुबन्धचतुष्टयं प्रदर्शनीयं भवति ।
तच्च - विषयश्चाधिकारी च सम्बन्धश्च प्रयोजनम् ।
 
-
 
ग्रन्यादौ प्रदातव्यमेतदनुबन्धचतुष्टयम् ॥
 
... यथा च - तत्रानुबन्धो नामाधिकारिविषयसम्बन्धप्रयोजनानि (वे० सा० ) ।
१२. इच्छापूर्वकदोषविशेषाभ्यासः । यथा अनुबन्धादिकं दृष्ट्वा सर्वं कार्यं यथाक्रमम्
इत्यादौ । ३. वातपित्तकफदोषाणामप्राधान्यमिति भिषजः । ४. प्रकृतिप्रत्यागमादेशानां
विकरणागमगुणवृद्ध्यादिकार्यविशेषार्थमनुबन्धनीयः परिनिष्पन्नपदकालेषु आश्रयमाणतया
नश्वरः इत्संज्ञतया कृतलोपो वर्ण इति शाब्दिकाः ।५. फलसाधनं पुनः पुनरनुष्ठानाभ्यास
इति धर्मशास्त्रविदः । ६. बन्ध इति कोशकाराः । ७. आरम्भ इति केचिदाहुः (वाच०) ।
अनुबन्धः - ग्रन्थेषु परस्परं श्रृङ्खलितं विचारणीयं तत्त्वम् ।
 
15
 
अनुबन्धचतुष्टयम् - विषयश्चाधिकारी च सम्बन्धश्च प्रयोजनम् । ग्रन्थादौ प्रदातव्य-
मेतदनुबन्धचतुष्टयम् । ग्रन्थारम्भे प्रथममधिकारी विषयः सम्बन्धः प्रयोजनम् एतानि
प्रदर्शनीयानि भवन्ति । वेदान्तग्रन्थे यथा- अधिकारी तु विधिवदधीतवेद-
वेदाङ्गत्वेनापात्तोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्ध-
वर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपवासनानुष्ठानेन निर्गतनिखिलकल्मषतया
नितान्तनिर्मलस्वान्तः साधचतुष्टयसम्पन्नः प्रमाता । काम्यानि स्वर्गादीष्टसाधनानि
ज्योतिष्टोमादीनि । निषिद्धानि नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि । नित्यानि
अकरणे. प्रत्यवायंसाधनानि सन्ध्यावन्दनादीनि । नैमित्तिकानि पुत्रजन्माद्यनुबन्धीनि
जातेष्ट्यादीनि । प्रायश्चित्तानि पापक्षयसाधनानि चान्द्रायणादीनि । उपासनानि सगुण-