This page has not been fully proofread.

प्रस्तावना
 
इदंप्रथमतया निष्पन्नमिमं शास्त्रीयकोशेषु शाङ्करवेदान्तकोशं श्रीमद्भगवत्पाद-
शङ्कराचार्यचरणेषु समुपाहरन् विद्वत्सु च समुपायनीकुर्वन् महान्तमानन्दवृन्दमनु-
विन्दामि । उपनिषन्महावाक्यकोशो न्यायकोशः सांख्ययोगकोशः स्याच्चान्योऽप्येवं-
विधोऽदृष्टगोचरः कोशः, किन्तु शाङ्करवेदान्तस्य रिक्तकोशस्थानमयं निश्चयं
प्रपूरयति । संस्कृतविश्वविद्यालयस्य च कर्त्तव्यतासु इदं कर्मायाति । अस्य निष्पादकाः
सम्पादकाः सञ्चायकाश्चाद्वैतवेदान्तविद्वांसो मम सुहृद्वराः श्रीमुरलीधरपाण्डेयाः शास्त्रीय-
कोशकार्यदक्षास्तिरुपतिकेन्द्रीयसंस्कृतविद्यापीठे प्राचार्यपदमधितिष्ठन्तो मम निवेदनं
स्वीकृत्य वैरवानसपाञ्चरात्रकोशयोः प्रारम्भिककार्यमनुष्ठाय पुनश्च दिल्लीस्थराष्ट्रिय -
संस्कृतसंस्थानस्य निदेशकपदमधितिष्ठन्तो ममानुरोधमङ्गीकृत्य जम्मूकेन्द्रीय-
संस्कृतविद्यापीठेऽधितिष्ठन्तः कश्मीरशैवदर्शनकोशनिष्पादनकार्ये प्रदत्तभूरिसाहाय्याः
पुनः काश्यामागत्य बह्वायासेन द्वादशवर्षपरिमितेन कालेनैकाक्येवेमं ग्रन्थं यथा साधु
तथा निष्पादितवन्त इति धन्यवादाः ।
 
अत्र शाङ्करवेदान्तस्य चतुष्पञ्चाशन्मुख्यग्रन्थभाष्यटीकाव्याख्यानादीनामन्येषां
च सम्बद्धशताधिकग्रन्थानां साहाय्येनायं ग्रन्थः प्रपूरितः । अत्र च शाङ्करवेदान्तदर्शनस्य
पारिभाषिकशब्दानां गूढार्थशब्दानां सैद्धान्तिकशब्दानाञ्च प्रायः पञ्चविंशतिशतशब्दानां
सङ्ग्रहः, तत्सम्बन्धे विचारः, मतभेदप्रदर्शनपूर्वकमर्थप्रकाशनम्, क्वचित् क्वचित्
शास्त्रार्थविमर्शश्चापि कृतो वर्तते ।
 
नायं नवीन उपक्रमः पुराऽप्येवंविधकोशप्रणयनप्रथा प्रथिताऽऽसीत् ।
एवंविधा ग्रन्था उपलभ्यन्ते, यथा - आचार्यभाझर्वज्ञस्य न्यायभूषणसारः, श्रीमद्-
विद्यारण्यस्वामिनो बिवरणप्रमेयसङ्ग्रहः, श्रीमदप्ययदीक्षितस्य सिद्धान्तलेशसङ्ग्रहः,
श्रीकौण्डभट्टस्य वैयाकरणभूषणसारः, श्रीमन्नागेशभट्टस्य वैयाकरणसिद्धान्तमञ्जूषा-
प्रभृतिग्रन्था कोशरूपा एव सन्ति; किन्तु एतेषु परिगणितान् सप्त अष्टौ वा
विषयान्– ख्याति-विधि-ब्रह्म-जीव-अविद्या-धात्वर्थ- सुबर्थ-शक्ति-लक्षणा-बौद्धार्थ-
प्रभृतीन् सङ्गृह्य मतमतान्तरप्रकाशनपुरस्सरं स्वशास्त्रीयसिद्धान्तप्रदर्शनसमर्थने
कृते वर्तेते ।