2023-03-20 13:47:50 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
स्तप्रतियोगिकः अभावोऽनुपलब्धिस्तत्सहकृतेनेति (नील० १८) तथा हि घटोपलब्धौ
घटाभावाग्रहात् प्रतियोग्यनुपलब्धिरभावप्रत्यक्षे इन्द्रियस्यैव सहकारिणी । नतु
प्रमाणान्तरम् । इन्द्रियेणैवाभावप्रत्यक्षोपपत्तेः । अन्यथा अभावप्रत्यक्षस्येन्द्रियजन्य-
त्वानङ्गीकारे इह घटो नास्तीति निर्णयानन्तरम् इह घटाभावं साक्षात्करोमीति साक्षात्कार-
विषयकप्रतीत्यनुपपत्तेः (त० कौ० १७-१८) । तथा चानुपलब्धिसहकृतेन्द्रियग्राह्यत्वाद-
नुपलब्धिग्राह्य इत्युपचर्यते (गौ० वृ० ५/१।३०) । मीमांसकः श्रीगागाभट्टोऽप्येवमेव
मनुते - वस्तुतस्त्वर्थापत्त्यनुपलब्ध्योरन्योन्यभेदमनुमानाच्च भेदन्नाकलयन्ति केचन
(न्या० को०) । अनुपलब्धिद्विविधा - अज्ञाता ज्ञाता च । तत्राज्ञातोपलब्धिस्थले
इन्द्रियेणैवाभावग्रहः । तावत्पर्यन्तमिन्द्रियव्यापारस्य विद्यमानत्वात् । अनुपलब्धिस्तु
सहचारिमात्रम् । ज्ञातानुपलब्धिस्थले त्वनुमानमिति नानुपलब्धिर्मानान्तरम् (तत्त्व०
९९)। यत्र अज्ञातानुपलब्धिः कारणं तत्प्रत्यक्षम् । ज्ञातानुपलब्धिजन्याभाव-
ज्ञानस्यानुमानत्वम् (कु० व्या० ३।३९ न्या० को० ) । .
अनुपब्धिसमः अनुपलब्धिसमा वा जातिः। महर्षिगोतमाभिप्रेतेषु षोडशपदार्थेष्वेक-
पदार्थः (प्रमाणप्रमेय....छल जातिनिग्रहस्थानामित्यादि न्यायसूत्रम् १।१ ) । (क) तदनु-
पलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः (गौ० ५।१।२९) ।
प्रतिकूलतर्कदेशनाभासोऽयमिति ज्ञेयम् (गौ० वृ० ५।१।२९) । (खं) अनुपलब्धे-
रप्यनुपलब्धिस्तस्या अप्यनुपलेब्धिरित्येवंरूपेण प्रत्यवस्थानमनुपलब्धिसमः नैयायिकैस्ता-
वच्छब्दानित्यत्वमेव साध्यते । यदि शब्दो नित्यः स्यादुच्चारणाप्राक् कुतो नोपलभ्यते ।
नहि घटाद्यावरणकुड्यादिवत् शब्दस्यावरणमिति तदनुपलब्धेरिति । तत्रैवं जातिवादी
प्रत्यवतिष्ठते । यद्यावरणानुपलब्धेरावरणाभावः सिद्ध्यति तदा आवरणानुप-
लब्धेरप्यनुपलम्मादावरणानुपलब्धेरप्यभावः सिद्ध्यते । तथा चावरणानुपलब्धिप्रमाणक
आवरणाभावो न स्यात् । अपि त्वावरणोपपत्तिरेव स्यादिति शब्दनित्यत्वे नोक्तं बाधकं
युक्तम् (गौ० वृ० ५/१।२९) । (ग) वादिना कृतेन्द्रियग्राह्यत्वात् अनुपलब्धिग्राह्य
इत्युपचर्यते (गौ० वृ० ५।१।३०) (न्यायकोशे) । यथा च - वादिना कस्यचित्
पदार्थस्यानुपलब्धिवशाद् अनङ्गीकारेऽनुपलब्धिवशादेव वाद्यभिमतयत्किञ्चित्पदार्था-
भावसाधनमनुपलब्धिसमा । शब्दोऽनित्यः । यदि शब्दो नित्यः स्यादुच्चारणाप्राक् कुतो
नोपलभ्यते न हि घटाद्यावरणकुड्यादिवच्छद्वस्यावरणमस्ति तदनुपलब्धेरिति नैयायिकैरुक्ते
प्रतिवादी प्रत्यवतिष्ठते यद्यवरणानुपलब्धेरावरणाभावः सिद्ध्यति तदावरणानुप-