This page has been fully proofread once and needs a second look.

रीत्या प्रमाणपञ्चकाभावः अनुपलब्धिरिति लक्षणमायातम् । अस्यैव निर्दुष्टं
स्वरूपमित्थं क्रियते । यथा -

ज्ञानकरणाजन्याभावानुभवासाधारमनुपलब्धिरेकं प्रमाणम् । अस्यार्थः ज्ञानरूपं
यत्करणं तदजन्यो योऽभावानुभवो नामाभावज्ञानं तस्य यदसाधारणं कारणं
तदनुपलब्धिरूपं प्रमाणं बोध्यमिति । अनुमादिना जन्योऽत एवातीन्द्रियो योऽभावानु-
भवस्तस्य हेतुभूतेऽनुमानादावतिव्याप्तिवारणायाजन्यान्तम् । अदृष्टादौ साधारण-
कारणेऽतिव्याप्तिवारणायासाधारणेति । अभावस्मृत्यसाधारणहेतौ संस्कारेऽति-
व्यातिवारणायानुभवेति विशेषणम् । एवं च घटादिज्ञानाभावो घटाद्यभावज्ञाने कारणमिति
फलितोऽर्थः । तथा च घटाभाववति भूतले घटज्ञानाभाववद्घटाभावस्य ज्ञानं भवति ।
आत्मनि धर्माधर्माद्यनुपलब्धिसत्त्वेऽपि तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावग्राहकत्वं
बोध्यम् । अनुपलब्धेर्योग्यता च तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगित्वरूपा ।
अस्यार्थ:- तर्कितं यत् प्रतियोगिसत्त्वं तेन प्रसञ्जितप्रतियोगित्वरूपा । तर्कितं यत्
प्रतियोगिसत्त्वं तेन प्रसञ्जित आपादितः प्रतियोगी यस्य तस्य भावस्तत्त्वमिति यावत् ।
तथा च स्फीतालोकवति भूतले यदि घटः स्यात्तदा घटोपलम्भः स्यादित्यापादनसम्भवात्
तादृशभूतले घटाभावोऽनुपलब्धिगम्यः । अन्धकारे तु तादृशापादानासम्भवान्नानुप-
लब्धिगम्या । अतःस्तम्भे तादात्येन पिशाचसत्त्वे स्तम्भवत्प्रत्यक्षतापत्त्या
तदभावोऽनुपलब्धिगम्यः स्तम्भः पिशाचो नेति । आत्मनि धर्माधमादिसत्त्वेऽपि
तस्यातीन्द्रियतया निरुक्तोपलम्मापादनासम्भवान्न धर्माद्यभावस्यानुपलब्धिगम्यत्वम् ।
ननूक्तसत्याधिकरण इन्द्रियसन्निकर्षस्थले अभावस्यानुपलन्धिगम्यत्वं तवानुमतम् 1
तत्र च क्लृप्तेन्द्रियमेवाभावाकारवृत्तावपि कारणम् । इन्द्रियान्वयव्यतिरेका-
नुरोधादिति चेत्, न । प्रतियोग्यनुपलब्धेरभावग्रहे हेतुत्वेन क्लृप्तत्वात्
करणत्वमात्रस्य कल्पनात् । इन्द्रियस्य चाभावेन समं सन्निकर्षाभावेनाभावज्ञाने
हेतुत्वाभावात् । इन्द्रियान्वयव्यतिरेकयोरधिकरणज्ञानार्थमुपक्षीणत्वेनान्यथासिद्धेः
(वे० प० ६ प्र०) । इत्यद्वैतिनः ।

अत्र नैयायिकाः तर्कितप्रतियोगिसत्त्वविरोध्यनुपलब्धिसहकृतेनेन्द्रियेणैवा-
भावज्ञानोपपत्तावनुपलब्धेः प्रमाणान्तरत्वासम्भवः इत्याहुः (त० दी०) । तदर्थश्च
तर्किता आपादिता प्रतियोगिनो घटादेः सत्त्वस्य सत्त्वप्रयुक्तविरोधिनी या उपलब्धि-