This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
निर्वाच्यम्, सचिवं सहकारि यस्य तत्तथा । तत् सचिवता ब्रह्मणस्तद्विषयता ।

तदाश्रयास्तु जीवा एवेति वक्ष्यते । न चाविद्यासाचिव्ये ब्रह्मणोऽनीश्वरत्वमुपकरणस्य

स्वातन्त्र्याविघातकत्वात् । अनिर्वचनीयतत्त्वम् ऋग्वेदे इत्थं सूचितम्- नासदासीन्नो

सदासीत् तदानीं नासीद् रजो नो व्योमापरोयत् । किमावरीवः कुहकस्य शर्मन्नम्भः

किमासीद्गहनं गभीरम् ।.न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः ।

आनीदवातं स्वधया तदेकं तस्माद्धान्यत्र परः किञ्च नास । तम आसीत्तमसा गूढमग्रे

प्रकेतं सलिलं सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत्तपसस्तन्महिम्ना जायतैकम् ।

कामस्तदग्रे समवर्तताधि मनसोरेतः प्रथमं यदासीत् (ऋ० वे० १०/१२९।१-४) एवं-

विधस्थले अनिर्वचनीयं रजतादिकमुत्पद्यते यथा स्वप्ने उत्पद्यते । उक्तं च उपनिषदि

न तत्र रथा न रथयोगाश्च रथा रथयोगाश्चोत्पद्यन्ते । अद्वैत-वेदान्त-विद्योतने उक्तम्-

तस्मादूभ्रमस्थले रजतादिकं जायते इत्यवश्यं वक्तव्यम् ।
 

 
अनिर्वाच्यम् - , अनिर्वाच्य
अनिर्वचनीयशब्दो द्रष्टव्यः ।
 
-
 
अनिवर्तकम् -

 
अनिवर्तकम्, अनिवर्तक
न निवारकम् न विनाशकम् । यथा- चरमसाक्षात्काररूपायां

वृत्तावभिव्यक्तं स्वरूपज्ञानमेव अविद्यानिवर्तकम् । यथा सूर्यकान्तारूढं सौरं तेज एव

तृणदाहकं तद्वत् । न तु वृत्तिरविद्यानिवर्तिका जडत्वात् । इत्युक्तमाकरे ।
 

 
अनिष्टप्रसङ्कः - , अनिष्टप्रसङ्क
अनभिमतार्थापादनम् । यथा पर्वते धूमेन वह्निसाधने वादिना

अप्रयोजकशङ्कायां कृतायां पर्वते यदि वह्निर्नस्यात्तर्हि धूमोऽपि न स्याद्, धूमो

वह्निजन्यो न स्याद्वा इत्यापादनम् । अप्रयोजकशङ्कया च पक्षे हेतुरस्तु साध्यं मास्तु

इति पर्यवसिता ।तत्रानिष्टप्रसङ्गश्च सिद्धव्याप्तिकयोर्धर्मयोर्व्याप्याङ्गीकारेणानिष्टव्यापक-

प्रसञ्जनम् (त० भा० ४३) ।
 

 
अनुपपत्तिः - , अनुपपत्ति
उपपत्त्यभावः । यथा पीनोऽयं देवदत्तः दिवा न भुङ्क्ते इति वाक्ये

श्रुते भोजनं विना पीनत्वमनुपन्नम् । अनेन अनुपन्नेन भोजनं विना पीनत्वानुपपत्त्या

रात्रिभोजनमाक्षिप्यते । विशेषज्ञानाय अर्थापत्तिशब्दो द्रष्टव्यः ।
 
-
 

 
अनुपलब्धिः - , अनुपलब्धि
ब्रह्मणि प्रपञ्चाभावसिद्धिद्वारा अद्वितीयब्रह्मस्वरूपसिद्ध्यर्थम्

अभावानुभवस्य असाधारणकारणरूपत्वेन अनुपलब्धिनामकं षष्ठं प्रमाणमद्वैतनये

स्वीक्रियते । व्यवहारे भाट्टनय इति रीत्येदं प्रमाणम् । श्लोकवार्तिके उक्तम्

प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता । एवं
 
-