2023-03-12 05:00:15 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
निर्वाच्यम्, सचिवं सहकारि यस्य तत्तथा । तत् सचिवता ब्रह्मणस्तद्विषयता ।
तदाश्रयास्तु जीवा एवेति वक्ष्यते । न चाविद्यासाचिव्ये ब्रह्मणोऽनीश्वरत्वमुपकरणस्य
स्वातन्त्र्याविघातकत्वात् । अनिर्वचनीयतत्त्वम् ऋग्वेदे इत्थं सूचितम्- नासदासीन्नो
सदासीत् तदानीं नासीद् रजो नो व्योमापरोयत् । किमावरीवः कुहकस्य शर्मन्नम्भः
किमासीद्गहनं गभीरम् ।.न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः ।
आनीदवातं स्वधया तदेकं तस्माद्धान्यत्र परः किञ्च नास । तम आसीत्तमसा गूढमग्रे
प्रकेतं सलिलं सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत्तपसस्तन्महिम्ना जायतैकम् ।
कामस्तदग्रे समवर्तताधि मनसोरेतः प्रथमं यदासीत् (ऋ० वे० १०/१२९।१-४) एवं-
विधस्थले अनिर्वचनीयं रजतादिकमुत्पद्यते यथा स्वप्ने उत्पद्यते । उक्तं च उपनिषदि
न तत्र रथा न रथयोगाश्च रथा रथयोगाश्चोत्पद्यन्ते । अद्वैत-वेदान्त-विद्योतने उक्तम्-
तस्मादूभ्रमस्थले रजतादिकं जायते इत्यवश्यं वक्तव्यम् ।
अनिर्वाच्यम् - अनिर्वचनीयशब्दो द्रष्टव्यः ।
-
अनिवर्तकम् - न निवारकम् न विनाशकम् । यथा- चरमसाक्षात्काररूपायां
वृत्तावभिव्यक्तं स्वरूपज्ञानमेव अविद्यानिवर्तकम् । यथा सूर्यकान्तारूढं सौरं तेज एव
तृणदाहकं तद्वत् । न तु वृत्तिरविद्यानिवर्तिका जडत्वात् । इत्युक्तमाकरे ।
अनिष्टप्रसङ्कः - अनभिमतार्थापादनम् । यथा पर्वते धूमेन वह्निसाधने वादिना
अप्रयोजकशङ्कायां कृतायां पर्वते यदि वह्निर्नस्यात्तर्हि धूमोऽपि न स्याद्, धूमो
वह्निजन्यो न स्याद्वा इत्यापादनम् । अप्रयोजकशङ्कया च पक्षे हेतुरस्तु साध्यं मास्तु
इति पर्यवसिता ।तत्रानिष्टप्रसङ्गश्च सिद्धव्याप्तिकयोर्धर्मयोर्व्याप्याङ्गीकारेणानिष्टव्यापक-
प्रसञ्जनम् (त० भा० ४३) ।
अनुपपत्तिः - उपपत्त्यभावः । यथा पीनोऽयं देवदत्तः दिवा न भुङ्क्ते इति वाक्ये
श्रुते भोजनं विना पीनत्वमनुपन्नम् । अनेन अनुपन्नेन भोजनं विना पीनत्वानुपपत्त्या
रात्रिभोजनमाक्षिप्यते । विशेषज्ञानाय अर्थापत्तिशब्दो द्रष्टव्यः ।
-
अनुपलब्धिः - ब्रह्मणि प्रपञ्चाभावसिद्धिद्वारा अद्वितीयब्रह्मस्वरूपसिद्ध्यर्थम्
अभावानुभवस्य असाधारणकारणरूपत्वेन अनुपलब्धिनामकं षष्ठं प्रमाणमद्वैतनये
स्वीक्रियते । व्यवहारे भाट्टनय इति रीत्येदं प्रमाणम् । श्लोकवार्तिके उक्तम्
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता । एवं