2023-03-12 05:00:15 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
-
-
-
…
असत्त्वेन सदसदत्त्वेन सदसदभावत्वेन वा निर्वक्तुं न शक्यतेऽनिर्वचनीया अविद्या ।
यदि सा सती तदा कदापि न निवर्तेत, यद्यसती तदा जगद्भासने कारणं न भवेत् ।
सदसदुभयरूपं तथा सदसदभावरूपं किञ्चिद्भवत्येव नहि । अतश्चतुष्कोटिविनिर्मुक्ता
अनिर्वचनीया अविद्या कथ्यते । यथा - अव्यक्ता सा हि माया तत्त्वान्यत्वनिरूपणस्या-
शक्यत्त्वात् (ब्र० सू० १ । ४ । ३ शा० भा० ) । यथा च - नाविद्या ब्रह्माश्रया किन्तु
जीवे सात्वनिर्वचनीया (तत्रैव १ । ४ । ३ भाम०) । यथा च प्रत्येकं सदसत्त्वाभ्यां
विचारपदवीं न यत् । गाहते तदनिर्वाच्यमाहुर्वेदान्तवेदिनः ॥ सत्त्वेनासत्त्वेन विचारा-
सहत्वे सति सदसत्त्वेन च यद्विचारं न सहते तदनिर्वाच्यम् । न चैवं सत्यव्याप्तिरति-
व्याप्तिर्वा । सर्वभ्रमगोचराणां तथाभावनियमात् । सदादीनां च तत्तविचारसहत्वेन
परैरभ्युपगमाच्च । एकालम्बनसंसर्गनिषेधे सदसत्त्वयोः । धर्मत्वाद्रूपरसवत्
सिद्धानिर्वचनीयता (त० प्र० १ । १३, १४) यथा च - एवमविद्यायां तन्निबन्धनाध्यासे
च सिद्धेऽपि न तस्यामनिर्वचनीयत्वसिद्धिः । तथा च लक्षणासम्भव इति चेन्न
सविलक्षणत्वे सति असविलक्षणत्वे सति सदसद्विलक्षणत्वम्, सत्त्वासत्त्वाभ्यां
विचारासहत्वे सति सदसत्त्वेन विचारासहत्वम् ( अ० सि० परि० १ अनि० ) । यथा
च - अत एव पूर्वदृष्टमिव तत्त्वतस्तु न तोयं न च पूर्वदृष्टं किन्त्वनृतमनिर्वाच्यम् ।
एवञ्च देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः ।.... स चायमेवं लक्षणकोऽध्यासोऽनिर्वचनीयः
सर्वेषामेव सम्मतः परीक्षकाणाम् (ब्र० सू० उपो० भाम०) । अस्यानिर्वचनीयस्य मूलम्
नासदीये सूक्ते ऋग्वेदीये १०/१२९।१-३ मन्त्रेषु उपलभ्यते । तत्र सायणभाष्ये
उक्तम् - तुच्छेन सदसद्विलक्षणेन भावरूपाज्ञानेन अपिहितम् । यथा च - अस्ति
नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैरावृणत्येव बालिशः ।
कोट्यश्चतस्र एतास्तु ग्रहैर्यासां सदावृतः । भगवानाभिरस्पृष्टो येन दृष्टः स सर्वभाक्
(मा० उप० का० ४।८३, ८४) । यथा च - नैव वाचा न मनसा (का० उप०
२।३।१२) इत्युपक्रम्य अन्यत्र धर्मादन्यत्राधर्मात् (तत्रैव १४) । अशब्दम् अस्पर्शम्
(तत्रैव १५ ) । यथा च - प्रत्येकं सत्त्वासत्त्वाभ्यां विचारपदवीं न यद् गहते
तदनिर्वाच्यमाहुर्वेदान्तवादिनः (स० द० सं०) । यथा च - अनिर्वाच्याविद्याद्वितय-
सचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽबवनयः । यतश्चाभूद्द्विश्वं चरमचर-
मुच्चावचमिदं नमामस्तद् ब्रह्मापरिमितसुखज्ञानममृतम् । (ब्र० सू० भामतीमङ्गलश्लोके)
अत्र वेदान्तकल्पतरौ - एका ह्यविद्या अनादिभावरूपा देवताधिकरणे (ब्र०अ० १ पा० ३
सू० २६-३३) वक्ष्यते, अन्या पूर्वपूर्वविभ्रमसंस्कारः तदविद्याद्वितयं सत्त्वासत्त्वाभ्याम-
-
-
-
-
…...