This page has been fully proofread once and needs a second look.

३२
 
शाङ्करवेदान्तकोशः
 
-
 
मन्यन्ते । तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः । ( ब्र० सू० उपो०)

अस्य लक्षणं ब्र० सू० शा० भा० उपोद्धाते एवमुच्यते - कोऽयमध्यासो नामेति ।

उच्यते स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्रान्यधर्माभ्यास इति वदन्ति ।

केचित्तु यत्र यदध्यास्तस्तद् विवेगाग्रहनिबन्धनो भ्रम इति । अन्ये तु यत्र यदध्यासस्

तस्यैव विपरीतधर्मकल्पनामाचक्षत इति । सर्वथापि त्वन्यस्यान्यधर्मतां न व्यभिचरति ।

तथा च लोकेऽनुभवः शुक्तिका हि रजतवदवभासते एकश्चन्द्रः सद्वितीयवदिति ।

अत्र भामती - अवसन्नोऽवमतो वा भासोऽवभासः । प्रत्ययान्तरबाधश्चास्यावसदोऽवमानो

वा । एतावता मिथ्याज्ञानमित्युक्तं भवति । तस्येदमुपख्यानम्- पूर्वदृष्ट इति । अत्र

कल्पतरौ - स्मृतिरूपपदेन चासन्निहितविषयत्वे विवक्षिते । तावति चोक्ते स्मृतावति-

व्याप्तिस्तन्निवृत्तये परत्रेत्युक्तमित्यपि द्रष्टव्यम् । अनेनासन्निहितस्य परत्र प्रतीतिरध्यास

इति लक्षणमुक्तम् । असन्निधानं चारोप्याधिष्ठाने न परमार्थतोऽसत्त्वम् । न

देशान्तरसत्त्वमिति । भामत्यामवसन्नोऽनुमतो वा भासोऽवभासः । वे० कल्पतरौ

अवसादः उच्छेदः, अवमानो यौक्तिकतिरस्कारः । अत्र च - स्मृतिरूपः परत्र पूर्वदृष्टाव-

भास इत्यध्यासलक्षणनिरूपणानन्तरमसत्ख्यात्यात्मख्यात्यख्यात्यन्यथाख्यातिवादिनां

मतान्युद्धृत्य चोक्तम्- सर्वथापि त्वन्यस्यान्यधर्मावभासतां न व्यभिचरति । एवमेव

सं० शा० १ । ३६ तथा १ । ४ अ० टी० अपि । स च षड्विधः - १. धर्माध्यासः,

२. धर्मसहितधर्मिणोऽध्यासः । ३. सम्बन्धाध्यासः ४. सम्बन्धसहितसम्बन्धिनोऽध्यासः

५. अन्यतराध्यासः ६. अन्योन्याध्यासः । यथा - १. देहगतस्य गौरत्वस्य, इन्द्रियगतस्य

बधिरत्वस्य च आत्मनि अध्यासः धर्माध्यासः २. कर्तृत्वादिधर्मसहितस्य अन्तःकरणस्य

धर्मिणि आत्मनि अध्यासः धर्मसहितधर्मिणि अध्यासः । ३. शरीरादौ आत्मनः

तादात्म्यसम्बन्धाध्यासः ४. सम्बन्धसहितशरीराधनात्मनां पदार्थानाम् आत्मनि अध्यासः,

५. अनात्मनि आत्मनो न किन्तु आत्मनि अनात्मपदार्थस्वरूपाणाम् अध्यासः,

६. अयोगोलकवह्निसदृशः आत्मानात्मनोः परस्पराध्यासः । केचन अध्यासं द्विविधमेव

मन्यन्ते–१. स्वरूपाध्यासः२. संसर्गाध्यासश्च । अनयोर्द्वयोरेव पूर्वोक्तानां षण्णामन्तर्भावः ।

यथा स्वरूपाध्यासे प्रथमद्वितीयपञ्चमानामन्तर्भावः । पूर्वोक्तस्तृतीयः संसर्गाध्यासेऽन्तर्भूतः ।

चतुर्थषष्ठौ स्वरूपाध्याससंसर्गाध्यासयोः सम्मिश्रणरूपौ ।
 
-
 

 
(ख) अधिष्ठानविषयसत्ताकोऽवभासः अध्यासः । (ग) तदभाववति

तप्रकारकोऽवभासः अध्यासः । (घ) अयथार्थज्ञानम् अध्यासः । उक्तञ्च -