This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
३१
 
भाविना निर्विकल्पकेन गृह्यमाणे बाह्ये विकल्पेनानुगृहीते तत्र विकल्पः

स्वाकारमारोपमारोपयितुमर्हति (तत्रैव भाम०) ।
 
-
 

 
अध्यात्मम्, अध्यात्म
आत्मनि इति अध्यात्मम् । आत्मविषयकं विवेचनम् । यथा -

अध्यात्मसंज्ञितमात्मानात्मविवेकविषय निरतिशयम् (गी० ११/१ शा० भा०) । यथा

च अध्यात्मसंज्ञितमध्यात्मम् इति संज्ञितमात्मानात्मविवेकविषयमशोच्यानन्व-

शोचस्त्वम् इत्यादि षष्ठाध्यायपर्यन्तं त्वं पदार्थप्रधानम् (तत्रैव म० सू०) । यथा च -

स्वभावोऽध्यात्ममुच्यते । आत्मानं देहमधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थ-

ब्रह्मावसानं वस्तु स्वभावोऽध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते (तत्रैव ८।३ शा०

भा०) यथा च - स्वस्यैव ब्रह्मण एवांशतो जीवरूपेण भवनं स्वभावः । स एवात्मानं

देहमधिकृत्य भोक्तृत्वेन वर्तमानोऽध्यात्मशब्देनोच्यते (तत्रैव श्रीधरी) ।
 

 
अध्यारोपः - , अध्यारोप
वस्तुनि अवस्त्वारोपः अध्यारोपः । यथा असर्पभूतायां रज्जौ

सर्पारोपवद् वस्तुन्यवस्त्वारोपोऽध्यारोपः । वस्तु सच्चिदानन्दानन्ताद्वयं ब्रह्म । अज्ञानादि-

सकलसमूहोऽवस्तु । अज्ञानं तु सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि

भावरूपं यत् किञ्चिदिति वदन्त्यहमंज्ञ इत्याद्यनुभवात् । देवात्मशक्तिं स्वगुणैर्निरूढाम्

इत्यादिश्रुतेश्च (वे० सा० ११) । अयमध्यासपदेनापि व्यवह्नियते ।
 

 
अध्यासः - , अध्यासः
अध्युपसर्गाद् आस्धातोरचि प्रत्ययेऽध्यासः । अर्थात् अधिकृत्य

आस्ते । आधारमाश्रित्य तिष्ठतीति यावत् । अयथार्थज्ञानम् । भ्रमात्मकं ज्ञानम् ।

साधिष्ठानं भ्रमात्मकं ज्ञानम् । रज्जौ सर्पः शुक्तौ रजतं चेतिवद् ।
 

 
(क) तत्राध्यासो नाम द्वयोर्वस्तुनोरनिवर्त्तितायामेवान्यतरबुद्धावन्यतरबुद्धिरध्यस्यते ।

यस्मिन्नितरबुद्धिरध्यस्यतेऽनुवर्तत एव तस्मिंस्तबुद्धिरध्यस्तेतरबुद्धावपि । यथा नाम्नि

बुद्धिर्न ब्रह्मबुद्ध्या निवर्तते । यथा वा प्रतिमादिषु विष्ण्वादिबुद्धिरध्यासः । एवमिहापि

अक्षर उद्गीथबुद्धिरध्यसत उद्गीथे चाक्षरबुद्धिरिति (ब्र० सू० ३।३।९ शा० भा० ) ।

यथा च – "गौणी बुद्धिरध्यासः । यथा माणवकेऽनिवृत्तायामेव माणवकबुद्धिव्यपदेश-

वृत्तौ सिंहबुद्धिव्यपदेशवृत्तिः सिंहो माणवक इति । एवं प्रतिमायां वासुदेवबुद्धिर्नाम्नि

च ब्रह्मबुद्धिस्तथोङ्कार उद्गीथ बुद्धिव्यपदेशाविति । अपवादैकत्वविशेषणानि चोक्तानि ।

एकार्थेऽपि च शब्दद्वयप्रयोगो दृश्यते । यथा - वैश्वदेव्यामिक्षा विज्ञानमानन्दम् ।

व्याख्यायां च पर्यायाणामपि सहप्रयोगो । यथा सिन्धुरः करी पिकः कोकिल इति

(तत्रैव भामं०) १ . अविद्या इत्यर्थः । यथा - तमेतमेवलक्षणमध्यासं पण्डिता अविद्येति
 
-