2023-03-20 04:51:17 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
तमध्यापयीतेतिप्रयुक्तमध्ययनं तथाप्यध्यापनविधिरखिलवेदवाक्याध्यापनं विदधानः
स्ववाक्याध्यापनमपि विधत्ते इति स एव दृष्टान्तो भविष्यतीत्यलमतिविस्तरेण
(त० प्र० प्र० प० ) । एवमेव अद्वैतसिद्धावपि ।
अध्यवसायः
१. इदमेवमेवेति विषयपरिच्छेदो निश्चयः । २. उपात्तविषयाणा-
मिन्द्रियाणां वृत्तौ सत्यां बुद्धेः रजस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः सोऽयमध्यवसायः
इति वृत्तिरिति च सांख्याः । यथा - अध्यवसायो बुद्धेर्धर्मो ज्ञानं विराग ऐश्वर्यम्
सङ्कल्पेन
(सां० का० २३) । ३. संकल्पः । यथा - विषयदर्शनश्रवणादिभिः
अध्यवसायेन (गी० ३।४० श्रीधर्याम्) । यथा - अतोऽन्तःकरणपर्यायरूपः । यथा -
कामः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्धीर्भीरित्येतत् सर्वं मन
एव (बृ० उप० १।५।३) इतिश्रुतिर्मानम् । धीशब्देन वृत्तिरूपज्ञानाभिधानात् । अत
एव कामादेरपि मनोधर्मत्वम् (वे० प० १ प०) इत्यद्वैतिनः ।
-
-
-
अध्यवसेयः
विज्ञानवादिबौद्धदर्शनमते आन्तरः पदार्थः अवसेयस्तथा बाह्यः
पदार्थः अध्यवसेयः । यथा - ययुच्यते द्विविधो हि विकल्पानां विषयः- ग्राह्यश्चाध्य-
वसेयश्च । तत्र स्वाकारी ग्राह्योऽध्यवसेयस्तु बाह्यः । तथा च पक्षप्रतिपक्षपरिग्रहलक्षणा
विप्रतिपत्तिः प्रसिद्धपदार्थकत्वं चोपपद्यत इत्यत आह - (ब्र० सू० २ । २ । २५ भाम० )
स्वाकारस्य निर्विकल्पस्यावसायाद् अधि उपरि अवसेयोऽध्यवसेयः । अध्यवसेयस्य
बाह्यार्थस्य निश्चितत्वादनिश्चितार्थत्वापादकं भाष्यमयुक्तम् इत्याशङ्क्याह (तत्रैव
वे० क० त०) (बौद्धदर्शनसम्मतविज्ञानवादखण्डनावसरे आन्तरपदार्थबाह्यपदार्थविचारे)
यथा च - केयमध्यवसेयता बाह्यस्य । यदि ग्राह्यता न द्वैविध्यम् । यथान्या सोच्यतां
ननूक्ता तैरेव स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तिरिति । अथ विकल्पाकारस्य
कोऽयमध्यवसायः । किं करणमाहो योजनमुतारोप इति । न तावत् करणम् ।
तह्यन्यद् अन्यत् कर्तुं शक्यम् । नहि जातु सहस्रमपि शिल्पिनो घटं पटयितुमीशते ।
न चान्तरं बाह्येन योजयितुम् । अपि च तथा सति युक्त इति प्रत्यय: स्यात् । चास्ति ।
आरोपो हि गृह्यमाणे बाह्ये उतागृह्यमाणे । यदि गृह्यमाणे तदा किं विकल्पेन अहो
तत्समयजेनाविकल्पकेन । न तावद् विकल्पोऽभिलापसंसर्गयोग्यगोचरोऽशक्याभिलाप -
समयं स्वलक्षणं देशकालाननुगतं गोचरयितुमर्हति । यथाहुः - अशक्यसमयो ह्यात्मा
सुखादीनामनन्यभाक् । तेषामतः स्वसंवित्तिर्नाभिजल्पानुसङ्गिणी । इति । न तत्समय-
-