This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
२९
 
वेदोऽध्येतव्यो ज्ञेयश्चेत्यादौ । (घ) अक्षरमात्रपाठोच्चारणमिति वेदाक्षरपाठकर्तारः ।

(ङ) अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत इति श्रुतिबोधिताध्यापनविधि-

प्रयुक्तमध्ययनम् । यथा- योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । जीवन्नेव

शूद्रत्वमाशु गच्छति सान्वयः । इत्यादिना अकरणे प्रत्यवायश्रवणाद् अध्यापनं चानित्यं

काम्यत्वात् । तथा च कथं नित्यमनित्येन प्रयुज्येत विरोधात् । तस्मादध्ययनविधि-

प्रयुक्तमेवाध्यापनमिति न दृष्टान्तासिद्धिः । अस्तु वाध्यापनविधिप्रयुक्तमध्ययनं

तथाप्यध्यापनविधिरखिलवेदवाक्याध्यापनं विदधानः स्ववाक्याध्यापनमपि विधत्त इति

स एव दृष्टान्तो भविष्यतीत्यलमतिविस्तरेण (त० प्र० प्र० प० ) ।
 

 
अध्ययनविधिः- , अध्ययनविधिः
वेदान्तानामध्ययनं नित्यविधिरिति अङ्गीक्रियते । यथा - नित्यो

हि- स्वाध्यायोऽध्येतव्य इति अध्ययनविधिः । ब्राह्मणेन निष्कारणो धर्मः षडङ्गो

वेदोऽध्येयो ज्ञेयश्च इतिवचनात् । काम्यत्वे हि वेदाध्ययनस्यान्योन्याश्रयता - अर्थावबोधे

सति कामना कामनायां सत्यां षडङ्गोपेतवेदाध्ययनप्रवृत्तस्यार्थबोधः इति । अतः

सर्वोऽपि नित्यविधिबलादेव षडङ्गसहितं वेदमधीत्यार्थं जानाति । पूर्वमीमांसकैरत्र

नियमविधिरङ्गीकृतः । यथा- दृष्टफलस्यापि धर्मज्ञानस्य साधनेऽध्ययने नियम-

विधिस्तावदङ्गीकृत एव । अथावधातेऽपूर्वविधिरेव सन् फलतो नियम इति

व्यवह्रियते । श्रवणेऽपि तथा भविष्यति । तस्माद् उपपद्यत एव श्रोतव्य इति विधिः

(विवरणप्रमेय सङ्ग्रहे १ । १ श्रवणविधिविचारे) । यथा च - प्रकटार्थकारादयः (अनुभूति-

स्वरूपाचार्यादयः) केचिदाहुः अपूर्वविधिरयम् । अप्राप्तत्वात् । घटसाक्षात्कारे

चक्षुरतिरेकेण त्वगिन्द्रियमिव ब्रह्मसाक्षात्कारे श्रवणातिरेकेण उपायान्तरमस्तीति शङ्कायां

व्यतिरेकव्यभिचारस्यापि अदोषत्वात् । तथा च प्राप्तत्वान्नापूर्वविधिः । (व्यतिरेक-

व्यभिचारस्यापि इत्यस्यायमर्थः= श्रवणरूपकारणाभावेऽपि वामदेवस्य ब्रह्मसाक्षात्कारः

इति व्यतिरेकव्यभिचारस्य ज्ञानेऽपि) अतो नियमविधिरेवायम् । तदभावे
 
...
 
-
 
...
 

 
हि यथा वस्तु किञ्चिच्चक्षुषा वीक्षमाणस्तत्र स्वागृहीते सूक्ष्मे विशेषान्तरे

केनचित् कथिते तदवगमाय तस्यैव चक्षुषः पुनरपि सप्रणिधानं व्यापारे वर्तते ।

एनं मनसा अहम् इति गृह्यमाणे जीवे वेदान्तैरध्ययनगृहीतैरूपदिष्टं निर्विशेषब्रह्म-

चैतन्यरूपत्वमाकर्ण्य तदवगमाय तत्र सावधानं मनस एव प्रणिधाने कदाचित् पुरुषः

प्रवर्तेतेति वेदान्तश्रवणे प्रवृत्तिः पाक्षिकी स्यात् ।... अथवा अद्वैतात्मपरभाषाप्रबन्धश्रवणस्य

पक्षे प्राप्त्या वेदान्तश्रवणे नियमविधिरस्तु (सि० ले० सं० प्र० प०) यथा च-
-
 
...
 
-