This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
अधिष्ठाता - १. अध्यक्षः, २. नियन्ता, ३. अधिदेवः । आत्मा इन्द्रियाद्यधिष्ठाता ।
यथा – मयाध्यक्षेणाधिष्ठात्रा निमित्तभूतेन प्रकृतिः सचराचरं विश्वं सूयते जनयति ।
अनेन मदधिष्ठानेन हेतुना इदं जगद् विपरिवर्तते पुनः पुनर्जायते । सन्निधि-
मात्रेणाधिष्ठातृत्वात् कर्तृत्वमुदासीनत्वं चाविरूद्धमिति भाव । मयाध्यक्षेण प्रकृतिः
सूयते सचराचरम् (गी० ९/१० श्रीधरी) ।
 
२८
 
-
 
अधिष्ठानम् - १ . आश्रयः । यथा - प्राणसञ्चाराय प्राणवहनाड्यादिः ।२. आरोप-
विशेष्यम् । यथा शुक्ती रजतस्याधिष्ठानम् । ३. कामस्य अधिष्ठानम् इन्द्रियाणि मनो
बुद्धिश्च । यथा - संकल्पेनाध्यवसायेन च कामस्याविर्भावादिन्द्रियाणि च मनश्च
बुद्धिश्चास्याधिष्ठानमुच्यते । एतैरिन्द्रियादिभिर्दर्शनादिव्यापारवद्भिराश्रयभूतैर्विवेक-
ज्ञानमावृत्य देहिनं विमोहयति (गी० ३।४० श्रीधरी ) । यथा च - इन्द्रियाणि मनो
बुद्धिः च - अस्य कामस्य अधिष्ठानमाश्रय उच्यते (तत्रैव शा० भा० ) ।
 
अध्यक्षः
 
-
 
अधिष्ठाता सन्निधिमात्रेण सर्वकर्मद्रष्टा सर्वकर्मकर्ता सर्वत
उदासीनः परमात्मा । प्रकृतिसान्निध्येन अविद्यासाचिव्येन अकर्तर्यपि परमात्मनि
जगत्कर्तृत्वं जगद्रष्टृत्वमुपवर्ण्यते । अतः स उदासीनोऽपि जगतोऽध्यक्ष उच्यते ।
यथा- मयाध्यक्षेण प्रकृतिः सूयते सचराचरणम् (गी० ९।१०) । इत्यत्र शाङ्करभाष्ये -
मया सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मम माया त्रिगुणात्मिका
अविद्यालक्षणा प्रकृतिः सूते उत्पादयति सचराचरं जगत् । तथा च मन्त्रवर्ण:- एको
देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी
चेता केवलो निर्गुणश्च । ... योऽस्याध्यक्षः परमे व्योमन् (तै० ब्रा० २।८) अत्रैव
श्रीधर्याम्- मयाध्यक्षेण अधिष्ठात्रा निमित्तभूतेन प्रकृतिः सचराचरं विश्वं सूयते ।
.जगद् विपरिवर्तते पुनः पुनर्जायते । सन्निधिमात्रेणाधिष्ठातृत्वात् कर्तृत्वमुदासीनत्वं
चाविरुद्धमिति ।
 
...
 
-
 
-
 
-
 
अध्यक्षम् – १ . प्रत्यक्षम् । यथा - उपादानस्य चाध्यक्ष्यं प्रवृत्तौ जनकं भवेत्
(भा० प्र० श्लो० १५२) । २. प्रत्यक्षविषयः । यथा - अध्यक्षं विशेषगुणयोगतः
( भा० प्र० श्लो० ४९) ।
 
-
 
अध्ययनम् - (क) उच्चारणोत्तरकालिको नियमपूर्वको ग्रन्थस्वीकारानुकूलो
व्यापारः । यथा उपाध्यायाद् अधीत इत्यादौ धात्वर्थः (ल० म०) । (ख) पठनम्, तच्च
गुरुमुखोच्चारणानुसार्युच्चारणम् । (ग) सार्थाक्षरग्रहणम् इति मीमांसकाः । यथा साङ्गो