This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 

 
अधिदैवतम् - , अधिदैवत
दैवतमधिकृत्य अनुगृहीतं कर्म । यथा- अधिदैवं दैवतान्यादि-
-
 

त्यादीन्यधिकृत्य चक्षुरादिकरणान्यनुगृह्णातीति
 
तथोच्यते (गी० ८।४ म० सू०) ।

यथा च पुरुषो वैराजः सूर्यमण्डलमध्यवर्ती स्वांशभूतसर्वदेवतानामधिपतिरधि-

दैवतमुच्यते अधिष्ठात्री देवता (तत्रैव श्रीधर्याम्) । यथा च - पुरुषः पूर्णमनेन

सर्वमिति पुरि शयनाद् वा पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः सर्वप्राणिकरणानाम्

अनुग्राहकः स अधिदैवतम् (तत्रैव शा० भा०) ।
 
-
 
२७
 
-
 
LOPPIS
पञ्च
 

 
अधिप्रज्ञम् - , अधिप्रज्ञ
प्रज्ञाशब्दः इन्द्रियोपलक्षकस्तेन प्रज्ञामिन्द्रियाणि अधिकृत्य

अनुगृहीतं कर्म । यथा - पञ्च शब्दादयः पञ्च पृथिव्यादयः इति दश दशभूतमात्राः

बुद्धीन्द्रियाणि पञ्च बुद्धयः इति दश प्रज्ञामात्राः । (ब्र० सू०

१।१।३१ भाम० )
 
-
 

 
अधिभूतम् - , अधिभूत
भूतं प्राणिजातमधिकृत्य जातम् । यथा क्षरतीति क्षरो विनाशी

भावो यत् किञ्चिज्जनि॒मद् वस्तुभूतं प्राणिजातमधिकृत्य भवतीत्यधिभूतमुच्यते

(गी० ८।४ म० सू०) । क्षरो विनश्वरो भावो देहादिपदार्थो भूतं प्राणिमात्रम-

धिकृत्य भवतीत्यधिभूतमुच्यते (तत्रैव श्रीधर्याम्) । यथा च- अधिभूतेषु

ग्राह्यग्राहकयोरन्योन्यापेक्षत्वात् कल्पितमतोऽद्वैतं तत्त्वमित्यर्थः (ब्र० सू० १/१/३१

वे० क० त० ) ।
 
-
 

 
अधियज्ञः - , अधियज्ञ
विष्णुः यज्ञमधिकृत्य जातः । यथा- अधियज्ञः सर्वयज्ञाधिष्ठाता

सर्वयज्ञफलदायकश्च सर्वयंज्ञाभिमानिनी विष्ण्वाख्या देवता । "यज्ञो ह वै विष्णुः"

इति श्रुतेः । स च विष्णुरधियज्ञोऽहं वासुदेव एव न मद्भिन्नः कश्चित् (गी० ८।४

म० सू० ) । यथा - च स हि विष्णुः अहमेव अत्र अस्मिन् देहे यो यज्ञः तस्य अहम्

अधियज्ञः । यज्ञो हि देहनिवर्त्यत्वेन देहसमवायी देहाधिकरणो भवति (तत्रैव शां०

भा०) । यथा च- अन्तर्यामित्वेन स्थितोऽहमेवाधियज्ञो यज्ञाधिष्ठात्री देवता

(तत्रैव श्रीधर्याम्) । यथा च - परमात्मा सर्वयज्ञस्वामी । यथा - अहं हि सर्वयज्ञानां

श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुरेव च ।

मत्स्वामिको हि यज्ञोऽधियज्ञोऽहमेवात्रेति ह्युक्तम् । तथा न तु मामभिजानन्ति

तत्त्वेन यथावत् । अतश्चाविधिपूर्वकमिष्ट्वा यागफलाच्च्यवन्ति प्रच्यवन्ते ते

(गी० ९।२४ शा० भा० ) ।