This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
लोकप्राप्तिः। कर्मणा पितृलोको विद्यया देवलोक इत्यादिश्रुतेः । साधनचतुष्टयम्-

साधनानि नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविरागशमादिषट्कसम्पत्तिमुमुक्षुत्वादीनि ।

नित्यानित्यवस्तुविवेकस्तावद् ब्रह्मैव नित्यं वस्तु ततो अन्यदखिलमनित्यमिति

विवेचनम् । ऐहिकानाम् स्रक्चन्दनवनितादिविषयभोगानां कर्मजन्यतया अनित्यत्ववद्

आमुष्मिकाणामपि अमृतादिविषयभोगानां अनित्यतया तेभ्यो नितरां विरक्तिः

इहामुत्रार्थफलभोगविरागः । शमादयस्तु शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः ।

शमस्तावद् श्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः । दमो बाह्येन्द्रियविषयाणां

तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् । निवर्तितानामेतेषां तदव्यतिरिक्तविषयेभ्यः उपरमणं

उपरतिः अथवा विहितानां कर्मणां विधिना पारित्यागः । तितिक्षा शीतोष्णादि-

द्वन्द्वसहिष्णुता । निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम् ।

गुरूपदिष्टवेदान्तवाक्येषु विश्वासः श्रद्धा । मुमुक्षुत्वं मोक्षेच्छा । एवम्भूतः प्रमाता

अधिकारी शान्तो दान्तः इत्यादि श्रुतेः उक्तञ्च -
 

 
प्रशान्तचित्ताय जितेन्द्रियाय प्रहीणदोषाय यथोक्तकारिणे ।
 

गुणानुतापानुगताय सर्वदा प्रदेयमेतत्सततं मुमुक्षवे ॥
 

 
(वे० सा० ८) श्रवणादिषु च मुमुक्षूणामधिकारः । काम्यकर्मणि फलकाम-

स्याधिकारित्वात् । मुमुक्षायां च नित्यानित्यवस्तुविवेकस्येहामुत्रार्थफलभोगविरागस्य

शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः । अन्तरिन्द्रियनिग्रहः शमः ।

बहिरिन्द्रियनिग्रहो दमः । विक्षेपाभाव उपरतिः । शीतोष्णादिद्वन्द्वसहनं तितिक्षा ।

चित्तैकाग्रं समाधानम् । गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा । अत्रोपरमशब्देन

संन्यासोऽभिधीयते । तथा च संन्यासिनामेव श्रवणाधिकार इति केचित् । अपरे तु

उपरमशब्दस्य संन्यासवाचकत्वाभावाद् विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात्,

जनकादेरिव ब्रह्मविचारस्य श्रूयमाणत्वात् सर्वाश्रमसाधारणं श्रवणादिविधानमित्याहुः।

(वे० प० ८ प०) ।
 
-
 
-
 
-
 

 
अधिदैवम्, अधिदैव
देवस्येदं दैवम् । दैवे इति अधिदैवम् । दैवमधिकृत्य भवतीत्यधि-

दैवमुच्यते । यथा- साधिभूताधिदैवं मां साधियज्ञं च मे विदुः । प्रयाणकालेऽपि च

मां ते विदुर्युक्ततेजसः (गी० ७।३०) । अस्यार्थः गी० ८।४ श्लोकोक्ते अधिदैवत-

शब्दे स्पष्टः ।