This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
सङ्गतिश्चेति शास्त्रेऽधिकरणं स्मृतम् । यथा च - विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् ।
सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् । एवमेव भगवत्पादश्रीशङ्कराचार्येण
ब्रह्मसूत्रभाष्ये प्रतिविषयं निर्णयार्थम् अधिकरणानि विरचितानि । सम्प्रदायभेदेनाधि-
करणसंख्याभेदस्तथा सूत्रसंख्याभेदश्च वर्तेते । श्रीभगवत्पादशङ्करानुसारं ब्रह्मसूत्रसंख्या
५५५ तथा अधिकरणसंख्या - १९९ । श्रीरामानुजानुसारं ब्र० सू० सं० ५४५ अधि०
सं० १६० । श्री माध्वानुसारं ब्र० सू० सं० ५६४ अधि० सं० २२३ । श्रीनिम्बार्कानुसारं
ब्र० सू० सं० ५४९ अधि० सं० १६१ । श्री विष्णुस्वाम्यनुसारं ब्र० सू० सं० ५५४
अधि० सं० १७१ । (श्री बल्लभाचार्यमतेऽपि) श्रीबोधायनीय श्रीरामानन्दमतानुसारं
ब्र० सू० सं० ५५१ अधि० सं० १६० । यथा- जिज्ञासाधिकरणम्, जन्माद्यधि-
करणमित्यादि । प्रत्यधिकरणं प्रथमं विषयोपन्यासस्ततः संशयः, ततः पूर्वपक्षः, तत
उत्तरं ततो निर्णयः सङ्गतिश्चेति क्रियन्ते ।
 
२५
 
-
 
अधिकवृत्तित्वम् - तदपेक्षया अधिकदेशकालान्यतरवृत्तित्वम् । यथा पृथिवीत्वमपेक्ष्य
द्रव्यत्वस्याधिकदेशवृत्तित्वम् । योऽधिकदेशवृत्तिर्धर्मो भवति, स एव व्यापकधर्मो
भवति । एतद् - विपरीतं व्याप्यत्वं भवति । तदपेक्षया अल्पदेशकालान्यतरवृत्तित्वम् ।
यथा - द्रव्यत्वमपेक्ष्य पृथिवीत्वस्य अल्पदेशवृत्तित्वम् ।
 
-
 
-
 
अधिकारी – ग्रन्थादौ अनुबन्धचतुष्टयं प्रदर्शनीयं भवति। विषयश्चाधिकारी
च सम्बन्धश्च प्रयोजनम् । ग्रन्थादौ प्रदातव्यं तदनुबन्धचतुष्टयम् । तत्र वेदान्तग्रन्थाध्ययने
अधिकारी – वक्ष्यमाणगुणसम्पन्नो भवति । यथा - अधिकारी तु विधिवदधीतवेद-
वेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्ध-
वर्जनपुरस्सरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया
नितान्तनिर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता ।
 
काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि निषिद्धानि नरकाद्यनिष्टसाधनानि
ब्राह्मणहननादीनि । नित्याकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनानि । नैमित्तिकानि
पुत्रजन्माद्यनुवन्धीनि जातेष्ट्यादीनि । प्रायश्चित्तानि - पापक्षयसाधनानि चान्द्रायणादीनि ।
उपासनानि - सगुणब्रह्मविषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि ।
 
एतेषां नित्यादीनां बुद्धिशुद्धिः परमम्प्रयोजनम् । उपासनानां तु चितैकाग्ग्रम् ।
तदेतमात्मानं वेदानुवचनेन ब्राह्मण्णा विविदिषन्ति यज्ञेन इत्यादि श्रुतेः, 'तपसा कल्मषं
हन्ति' इत्यादिस्मृतेश्च । नित्यनैमित्तिकयोरुपासनानां त्ववान्तरफलं पितृलोकसत्य-