This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
धर्मशब्दार्थः वेदार्थः कृतस्तेन अधर्म: वेदार्थभिन्नः । अतः श्रुतिर्यदकर्तव्यतया बोधयति
तदेवाधर्मस्तमेव चानुवदति स्मृतिरपि । यथा च - शास्त्र हेतुत्वाधर्माधर्मविज्ञानस्य ।
अयं धर्मोऽयमधर्म इति शास्त्रमेव विज्ञानं कारणम् । अतीन्द्रियत्वात् तयोः अनियत-
देशकालनिमित्तत्वाच्च । यमिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयेत स एव
देशकालनिमित्तान्तरेष्वधर्मो भवति । येन शास्त्रादृते धर्माधर्मविषये विज्ञानं न
किञ्चिदस्ति । शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्ववधारितः । स कथम्
अशुद्ध इति शक्यते वक्तुम् (ब्र० सू० ३ । १ । २५ शा० भा० ) । यथा च प्राणिनां
च सुखप्राप्तये धर्मो विधीयते । दुःखपरिहाराय चाधर्मः प्रतिषिध्यते । दृष्टानुश्रविक-
सुखदुःखविषयौ च रागद्वेषौ भवतः, न विलक्षणविषयावित्यतो धर्माधर्मफलभूतोत्तरा
सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यते । स्मृतिश्च भवति - तेषां ये यानि कर्माणि
प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः । हिंम्नाहिंसे मृदुक्रूरे
धर्माधर्मानृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ इति (ब्र० सू०
१ । ३ । ३१ शा० भा०) । यथा च - धर्मं जैमिनिरत एव (ब्र० सू० ३।२।४०) अत्र
शा० भाष्यम्- जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते । अत एव हेतोः
श्रुतेरुपपत्तेश्च । श्रूयते ताचदयमर्थः - स्वर्गकामो यजेत - इत्येवमादिषु वाक्येषु । तत्र
च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते । यथा च - एतदनुसारमेव -
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः
(ब्रह्मपुराणे २३७।६) (महाभारते शान्तिपर्वणि २४१।६) च ।
 
२४
 
आधारोऽधिकारणम् इति पाणिनिसूत्रम्
(१।४।४५) । २. एतन्नामकंमेकं कारकम् । व्याकरणस्य सप्तमीविभक्तेरियं संज्ञा ।
यद्धातूपस्थाप्ययादृशेऽर्थे विग्रहस्थया सप्तम्या यः स्वार्थोऽनुभाव्यते, तदेव तवस्तूप-
स्थाप्यतादृशक्रियायामधिकरणं नाम कारकम् । यथा ग्रामे गन्तेत्यादौ । अत्र धात्वर्थे
गतौ ग्रामनिष्ठमधिकरणत्वं तन्निरूपितमाधेयत्वे या सप्तम्यानुभाव्यत इति । तदेव
तवस्तूपस्थाप्यतादृशक्रियायामधिकरणकारकम् । अधिकरणत्वं च अधिकरणमिति
प्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः । यथा घटवद्भूतलमित्यत्र भूतले अधिकरणता ।
२. न्यायालयः । अधिकरणे निर्णयद्वारा विवादस्य समाप्तिः क्रियते । अत एव महर्षि-
जैमिनिप्रणीतानां मीमांसादर्शनसूत्राणां भाष्ये शबरस्वामी अधिकरणानि व्यरचयत् ।
मीमांसाशास्त्रं न्यायशब्देनापि व्यवह्रियते न्यायालये निर्णयो भवति । अतोऽधिकरणे
धर्मसम्बन्धिवेदवाक्यार्थविषयके विवादे निर्णयः प्रस्तूयते । तदर्थमधिकरणे षड्
वा पञ्च अवयवा भवन्ति । यथा - विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयः
 
अधिकरणम् - १ आधार:
 
-
 
-