2023-03-20 13:39:17 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
सर्वभूतानां यथायथमद्वेष्टा मैत्रः करुणश्च । उत्तमेषु द्वेषशून्यः । समेषु मित्रतया वर्तत
इति मैत्रः । हीनेषु कृपालुरित्यर्थः (तत्रैव श्रीधरी) ।
अद्वैतम्, अद्वैत
द्वाभ्यां प्रकाराभ्यामितं ज्ञानं द्वीतम्, द्वीतमेव द्वैतं न द्वैतम् अद्वैतम् ।
तच्च द्वैताभावोपलक्षितं ब्रह्म । यथा- द्विधेतं द्वीतमित्याहुस्तद्भावो द्वैतमुच्यते (बृ०
उप० भा० वा० ४।३।१८०७) । न विद्यते द्वैतं द्विधाभावो यत्र तत् । (सि० बि०
१०) यथा च स्थूलादिवाक्यैः परिहृतद्वैतप्रपञ्चम् । (सं० शा० १ । २६६ सु० टी०)
क
यथा च - तुच्छत्वम् असत्त्वम् अनृतत्वम् आद्यसहनवपुः सत्यज्ञानानन्तानन्दसद्रूपं
परमं पदमत एव परिहृतसकलप्रपञ्चं यत् तदेव तवात्मेति त्वमवेहि । किं कृत्वा
भेदप्रतिभासहेतुं तमोऽविन्नेकलक्षणं वाक्यान्निरस्येति योजना । पुन पुनरवस्थात्रया -
पोहेन त्वमर्थस्वरूपविवेके तदविवेकलक्षणतमसो विलयादात्मब्रह्मणोर्भेदहेत्वभावान्निः-
संशयमात्मेत्येवैकलक्षणं ब्रह्मक्षस्व (तत्रैव अ० टी०) । यथा च - मायाख्यायाः
कामधेनोर्वत्सौ जीवेश्वरावुभौ । यथेच्छं पिवतां द्वैतं तत्त्वं त्वद्वैतमेव हि (प० द०
६।२६६) । २. अद्वयम् । यथा - परमार्थसत् अद्वयं ब्रह्म (छा० उ० ९/१/१ शा०
भा० ) । यथा च - परमार्थतत्त्वमद्वयमेतन्न बुद्धेन भाषितम् । बहुत्र अद्वैतशन्दस्य
अद्वयशब्दस्य च समानार्थप्रयोगो वेदान्तग्रन्थेषु प्राप्यते । किन्तु वस्तुतोऽनयोः शब्दयोरर्थे
भेदः । स च अद्वयशब्दे द्रष्टव्यः ।
इत्यर्थः ।
अद्वैतीकरणम्, अद्वैतीकरण
ब्रह्मात्मैक्यबोधनम् । यथा - अद्वैतात्मबोधनम्
.... विधिर्विधिवाक्यं शबलार्थगोचरतया निर्भेदमखण्डार्थं कर्तुमैक्यं मुख्यं बोधयितुं
न क्षमो यतोऽतो निषेधोपस्थापकतया तदपि निषेधशेष एवेति योजना
(सं० शा० १/२/५१ अ० टी०) । यथा च - अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते
(मा० का० ३।१७) ।
अधर्मः, अधर्म
वेदादिप्रतिपादितनिषिद्धकर्मजन्यः । ऐहलौकिकपारलौकिकदुःखनरकादि-
साधनम् । धर्माभावरूपो न अधर्मः । यथा - वेदविहितकर्मजन्यो धर्मः । वेदनिषिद्ध-
कर्मजन्योऽधर्मः (त० सं० ) । यथा च - चोदनालक्षणत्वादिधर्मं प्रत्येव गृह्यताम् ।
धर्मस्यैव प्रतिज्ञोक्ते न तु ब्रह्म प्रतीष्यते (सम्बन्धवार्त्तिके) यथा च - चोदनालक्षणोऽर्थो
धर्मः (मी० सू० १।१।२) । अत्र पदच्छेदं कृत्वा अधर्मः इति बुध्यते । तेन पदच्छेदं
विना यथा वेदविहितकर्मजन्यो धर्मस्तथा वेदाविहितकर्मजन्यः अधर्मः । अथवा
वेदनिषिद्धकर्मजन्यो अधर्मः । मीमांसकाचार्यप्रभाकरमिश्रैस्तु मीमांसाद्वितीयसूत्रे