This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
एकम् इत्यनेन स्वगतभेदशून्यमेवेत्यनेन सजातीयभेदशून्यम्, अद्वितीयम्
इत्यनेन विजातीयभेदशून्यं परिगृह्यते । यथा - तत्र न द्वितीयम् अद्वितीयम् इति
तत्पुरुषाभ्युपगमे न द्वितीयं किन्तु प्रथमं तृतीयं चेत्यर्थ: स्यात् । स च न सम्भवति ।
तयोरपि किञ्चिदपेक्ष्य द्वितीयत्वात् । अतो न विद्यते द्वितीयं यत्रेति बहुब्रीहि
रेवादरणीयः ।.... तदुक्तम् वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्
सजातीयो विजातीयः शिलादितः । तथा सवस्तुनो भेदत्रयं प्राप्तं निवार्यते ।
एकावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् । इति स्वगतभेदः नानात्वरूपजीवेश्वरभेदः ।
सजातीयभेदोऽथ द्रव्यत्वादिना सजातीयपृथिव्यादिभेदः विजातीयभेदो गुणादिभेदः ।
अथवा जडभेदो विजातीयभेदः चैतन्यभेदः सजातीयभेदः ज्ञानानन्दादिभेदः
स्वगतभेदः । यदि च अस्य गौर्द्वितीयोऽन्वेष्टव्यः इत्युक्ते गौरेव द्वितीयोऽन्विष्यते
नाश्वो गर्दभ इति महाभाष्यानुसारात् । समानजातीयद्वितीयपरत्वं द्वितीयशब्दस्य
तदा अद्वितीयशब्दस्य सजातीयभेदनिषेधपरत्वम्, विजातीयस्वगतभेदनिषेधपरत्वं तु
एकावधारणपदयोर्यथेष्टं व्याख्येयम् । अथवा अद्वैतपदेनैव भेदत्रयनिषेधः । एकावधारणपदे
तु संकोचशङ्कापरिहाराय । यत्तु केनचित्त् प्रलपितम् - द्वितीयशब्दः सहायवाची
असिद्वितीयोऽनुससार पाण्डवम् इति प्रयोगात् असिद्वितीयः असिसहाय इति
महाभाष्योक्तेश्च । तथा अद्वितीयमसहायार्थोऽस्तु । एवमेकशब्दस्यापि नानार्थत्वेना-
विरुद्धार्थमादाोयपत्तौ न मिथात्वपर्यवसायिताऽऽस्थेया । तथा च एके मुख्यान्य-
केवला इत्यमरः । एकशब्दोऽयमन्यप्रधानासहायसंख्याप्रथमसमानवाचीति एको
गोत्रे इति सूत्रे कैयटः ! षडितिसूत्रे महाभाष्यकारोऽपि एकशब्दोऽयं बह्वर्थः
अस्ति सङ्ख्यार्थः अस्त्यसहायवाची अस्त्यन्यार्थ इत्यादि व्याख्यातवान् । तथा
जीवादिभ्योऽन्यत्वं प्राधान्यं वा एकशब्दार्थोऽस्तु।: तत् पूर्वोक्तयुक्तिभिरपास्तम् ।
(अ० सि० एकमेवेतिविचारे)
 
२२
 
...
 
-
 
- -
 
-
 
अद्वेष्टा – १ . सर्वभूतेषु आत्मबुद्धिः । यथा - अद्वेष्टा सर्वभूतानां न द्वेष्टात्मनो
दुःखहेतुमपि न किञ्चिद् द्वेष्टि सर्वाणि भूतानि आत्मत्वेन पश्यति (गी० १२/१३
शा० भा० ) । २. सर्वं मित्रमेव पश्येत् । यथा- अद्वेष्टा चेदुदासीनः स्यान्नेत्याह-
मैत्रः मित्रमेव मैत्रो न तूदासीनः कदाचिदपि (तत्रैव नी० क०) । यथा च - सर्वाणि
भूतान्यात्मत्वेन पश्यन्नात्मनो दुःखहेतावपि प्रतिकुलबुद्धेरभावान्न द्वेष्टा सर्वभूतानां
किन्तु मैत्र: मैत्री स्निग्धता तवान् (तत्रैव म० सू०) । ३. हीनेषु कृपालुः । यथा -
 
mat
 
-