This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
२१
 
-
 
अद्वयं ब्रह्म (छा० उ० ९/१/१ शा० भा० ) । यथा च - न वयं नास्तिकाः ।
अस्तित्वनास्तित्वद्वयनिरासेन तु वयं निर्वाणपुरगामिनमद्वयमर्थं विद्योतयामः (मध्य
वृ० पृ० ३३१) ।
 
वस्तुतस्तु बौद्धनये सांवृत्तिकं सत्यं पारमार्थिकं सत्यं च, एतद् द्वयरहितम-
द्वयमिति । यथा द्वे सत्यै समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृत्तिसत्यं च
सत्यं च परमार्थतः (मध्य का० २४।८) । अतो भावाभावान्तद्वयरहितत्वात् ।
(चन्द्रकीर्तिप्रसन्नपदा) यथा च - अभूतपरिकल्पोऽस्ति द्वयं तत्र न विद्यते । (मैत्रेय-
नाथः मध्यान्तविभागशास्त्रे ल० प० ९ का०) यथा च - विषयोपलब्धिः सा
कुशलाकुशलाऽद्वया (त्रिंशिका ८) । अत्र स्थिरमतिभाष्ये कुशलाकुशलाऽद्वयेत्यव्याकृतापि ।
अलोभाद्वेषामोहैः सम्प्रयुक्ता कुशला । लोभद्वेषमोहै: सम्प्रयुक्ता अकुशला ।
कुशलाकुशलैरसम्प्रयुक्ता अयुक्ता अद्वया न कुशला नाकुशलेत्यर्थः । वितर्कश्च
विचारश्चेत्युपक्लेशो द्वये द्विधा (तत्रैव १४) । अत्र स्थिरमतिः - द्वये द्विधेति-द्वयं
च द्वयं च द्वये ते पुनः कौकृत्यमिद्धे वितर्कविचारौ च एते च चत्वारो धर्मा द्विधा
क्लिष्टाः अक्लिष्टाः । बौद्धमते अद्वयं नाभावरूपम् । नागार्जुनेन धर्मकाये अद्वयाय
नमः कृतमस्ति । यथा - न भावो नाप्यभावोऽस्ति नोच्छेदो नापि शाश्वतः । न नित्यो
नाप्यनित्यस्त्वमद्वयाय नमोस्तु ते । भेदे यदि न तद्बुद्धिरन्यापोहे धियापि च 1 घटाम्बुवत्
संवृत्तिसत् तदन्यत् परमार्थसत् (अ० ध० को ६।४) । अर्थक्रियासामर्थ्यं यत् तदत्र
परमार्थसत् । अन्यत् संवृतिसत् प्रोक्तं ते स्वसामान्यलक्षणे (प्र० वा० २।३ ) ।
 
-
 
अद्वितीयम् - द्वयोः पूरणम् द्वितीयम्, न द्वितीयम् अद्वितीयम् । द्वितीयरहितम् ।
स्वगतसजातीयविजातीयभेदशून्यं ब्रह्म । वृक्षादीनां स्वावयवशाखादिभ्यो भेदः
स्वगतभेदः, घटस्य घटान्तराद् भेदः सजातीयभेदः, घटस्य पटादितो भेदः
विजातीयभेदः । ब्रह्मैवेदं सर्वम् (मु० उप० २।२।११) आत्मैवेदं सर्वम् (छा० उप०
७।२५।२) नेह नानास्ति किञ्चन (बृ० उप० ४।४।१९) इदं सर्वं यदयमात्मा
(बृ० उप० २।४।५) इत्यादिश्रुतिभिः, तदनन्यत्वमारम्भणशब्दादिभ्यः (ब्र० सू०
२।१।१४) इति सूत्रेण च स्वकार्याद् घटादितोऽनन्यत्वात् स्वगतभेदशून्यम्, सर्वं
खल्विदं ब्रह्मेति श्रुत्या सजातीय़वस्त्वन्तराभावात् सजातीयभेदशून्यम्, घटादेर्व्यावहारिक-
सत्त्ववत्त्वेन पारमार्थिकसत्त्ववतो ब्रह्मणो विजातीयत्वेऽपि ततोऽभेद एवेति
ब्रह्मभिन्नस्याभावाद् विजातीयभेदशून्यम्, एवं त्रिविधभेदशून्यं ब्रह्म । यथा च श्रुतिः
एकमेवाद्वितीयं ब्रह्म ।