This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
अदितिः, अदिति
१ . अत्तीति अदितिः सर्वदेवमयी शक्तिः । यथा - हिरण्यगर्भशब्दादीनाम्

अदनाद् भक्षणात् अदितिर्वा । "किञ्च या सर्वदेवयी सर्वदेवतात्मका प्राणेन

हिरण्यगर्भरूपेण परस्मात् ब्रह्मणः सम्भवति शब्दादीनामदनात् अदतिस्तां पूर्ववद् गुहां

प्रविश्य तिष्ठन्तीमदितिम् (क० उप० ४।७ शा० भा०) । २. देवमाता, अदितेः पुत्राः

आदित्याः देवाः ।
 
२०
 
-
 

 
अदृष्टम्, अदृष्ट
१ . अपूर्वः । स्वर्गकामो यजेदित्यादौ यजनेन कश्चन अपूर्वः जन्यते ।

अयं चापूर्वः स्वर्गं जनयति । तेन यजनानन्तरं कालान्तरे स्वर्गोपत्तौ अपूर्वः कारणं

भवति । अन्यथा यजने सम्पन्ने कालान्तरे स्वर्गोत्पत्तौ यजनस्य कारणता न

सिद्धयेत । एतदर्थं यजनात् कश्चन अपूर्वो जायते अपूर्वाच्च स्वर्गो जायते । अतो

यजनस्वर्गयोर्मध्येऽपूर्वः कुल्प्यते पूर्वमीमांसकैः । २. भाग्यम् । यथा दैवोऽदृष्टं भाग-

धेयमिति कोशः । ३. पुण्यपापात्मकं भोग्यम् । ४. धर्माधर्मजन्यः कश्चन गुणविशेषः ।
 

 
अदोम्भः - , अदोम्भ
धुलोकादुपरितनो लोकः । यथा- अदस् तदम्भ: शब्दवाच्यो

लोकः परेण दिवं धुलोकात् परेण परस्तात् सोऽम्भः शब्दवाच्योऽम्भो भरणात्

(ऐ० उप० २।१ शा० भा० ) ।
 
-
 
अद्वयम् -

 
अद्वयम्, अद्वय
न द्वयम् द्वयरहितम् । द्वयं च ग्राह्यं चैत्तिकं ग्राहकं च चित्तम् ।

एतद्व्यरहितम् । अर्थात् ग्राह्यग्राहकभावशून्यम् । यथा ग्राह्यग्राहकभावेन आत्मात्मीयं

न विद्यते (ल० अ० सू० ३।२१ ) । अत्र आत्मार्थः चित्तमिति । यथा च प्रकृत्या

भास्वरे चित्ते द्वयाकारकलङ्किते (त० सं० ३५३८) । यथा च ग्राह्यग्राहकसंवित्तिर्भेदवानिव

लक्ष्यते (प्र० वा० ३।३५४) । यथा च - चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्वयम्

(गौ० पा० का० ४।७२ ) । अत एव बुद्धः अद्वयवादी उच्यते । यथा - षडभिज्ञो

दशबलोऽद्वयवादी विनायकः (अ० को० स्व० व०) । अतोऽद्वैतशब्दाद् भिन्नार्थ-

कोऽद्वयशब्दः । किन्तु आचार्यैर्द्वयोः शब्दयोः समानार्थेन प्रयोगः कृतः । यथा -

तस्मादद्वयता शिवा (गौ० पा० का० २।३३) । यथा च - प्रपञ्चोपशमोऽद्वयः

(गौ० पा० का २।३५) । यथा च - तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः (नै०

सि० २।२९) । वदन्ति तत् तत्त्वविदस्तत्त्वं यद् ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति

भगवानिति शब्दयते । (भाग० १।२।११) यथा च - अमरकोशे १।१।१४ श्लोके

भानुजीदीक्षित आह- अयमद्वैतं वदन्त्यवश्यम् । तत्रैव क्षीरस्वामी आह- अद्वयं

विज्ञानाद्वैतं वदन्त्यवश्यम् । यथा च परमार्थतत्त्वमद्वयमेतन्न बुद्धेन भाषितम् ।

....परमार्थतत्त्वमद्वैतं बेदान्तेष्वेव ज्ञेयम् (मा० का० ४।९९ भा०) । यथा च परमार्थसत्
 
-
 
-
 
-