2023-03-19 14:22:59 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
१९
१. चतुर्विधेषु अभावेषु एकोऽभावः । १. यवस्तु यत्र न
कदापि भविष्यति न च कदाचिद्भूतं, न चास्ति तस्य वस्तुनस्तत्रात्यन्ताभावो मन्तव्यः
(वै० उ० ९/१/९) यथा वायौ रूपं नास्तीति प्रतीतिसाक्षिकोऽभावः । (तत्रैव वै०
वि०) । २. त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽभावः (त० सं०) । ३. यत्राधिकरणे
यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा वायौ रूपात्यन्ताभावः । सोऽपि
घटादिवद् ध्वंसप्रतियोग्येव (वे० प० ७ प्र०) ।
·
.....
अथ
१. अनन्तरम् । यथा - तत्राथशब्द आनन्तर्यार्थः परिगृह्यते, नाधिकारार्थः ।
ब्रह्मजिज्ञासाया अनधिकार्यत्वात् (ब्र० सू० 91919 शा० भा०) । तस्मात् किमपि
वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते नित्यानित्यवस्तुविवेकः
इहामुत्रार्थभोगविरागः, शमदमादिसाधनसम्पत् मुमुक्षुत्वं च । ..... तस्मादथशब्देन
यथोक्ते साधनसम्पत्त्यानन्तर्यमुपदिश्यते (तत्रैव) । यथा च अत्रायमथशब्द आनन्तर्ये
भवति । अधीतसाङ्गसशिरस्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञानतया संजात-
मोक्षाभिलाषस्यानन्तस्थिरफलजिज्ञासा ह्यनन्तरभाविनी । मीमांसापूर्वभाग-ज्ञातस्य
कर्मणोऽल्पास्थिरफलत्वादुपरितनभागावसेयस्य ब्रह्मज्ञानस्यानन्तक्षयफलत्वं च पूर्ववृत्तात्
कर्मज्ञानादनन्तरम् । २. अधिकारः (अधिक्रियते प्रारभ्यते इति) यथा -
नन्वधिकारार्थोऽप्यथशब्दो दृश्यते, यथा अथैष ज्योतिः इति वेदे यथा वा लोके अथ
शब्दानुशासनम्, अथ योगानुशासनमिति (ब्र - सू० १ /१/१ भाम०) । ३. प्रश्न:-
यथा – अथ किम् । ४. विकल्पे । ५. समुच्चये । ६. मङ्गलम् । यथा - मङ्गलस्य च
वाक्यार्थे समन्वयाभावात् । अर्थान्तरप्रयुक्त एव अथशब्दः श्रुत्या मङ्गलप्रयोजनो
भवति (ब्र० सू० १ ।१।१ ) । तत् किं इदानीं मङ्गलार्थोऽथ शब्दस्तेषु तेषु न प्रयोक्तव्यः
तथा च ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्याती
तस्मान्मान्माङ्गलिकावुभौ । इति स्मृतिव्याकोप इत्यत आह ..... अर्थान्तरेष्वानन्तर्यादिषु
प्रयुक्तोऽथशब्दः श्रुत्या श्रवणमात्रेषु वेणुवीणाध्वनिवन्मङ्गलं कुर्वन् मङ्गलप्रयोजनो
भवति । अन्यार्थमानीयमानोदकुम्भदर्शनवत् । ७. पक्षान्तरोपन्यासः । यथा - न चेह
कल्पान्तरोपन्यास इति परिशेष्यादत्रानन्तर्यमिति वक्तव्यम् (तत्रैव भाम० ) ।
-
-
=
-
अदः
परोक्षबुद्धिविषयः, विप्रकृष्टपरोक्षव्यक्तिर्वा । यथा - पूर्णमदः पूर्णमिदं
पूर्णात्पूर्णमिवोच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।