This page has been fully proofread once and needs a second look.

10
 
शाङ्करवेदान्तकोशः
 
ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात्, तेजसि गन्धरसयोः, वायौ गन्धरूपरसानाम्, न

चैवं दृश्यते । तस्मादप्यनुपपन्नः परमाणुकारणवादः ।
 
१८
 
-
 

 
अतद्गुणसंविज्ञानः - , अतद्गुणसंविज्ञान
बहुव्रीहिसमासस्य भेदद्वयम् = अतद्गुणसंविज्ञानो

बहुव्रीहिः, तद्गुणसंविज्ञानबहुब्रीहिश्च । न तद्गुणाः संविज्ञायन्ते यत्र स

अतद्गुणसंविज्ञानः । यथा दृष्टसागरं पुरुषमानय चित्रगुं पुरुषमानयेत्यादौ च ।

तद्गुणाः संविज्ञायन्ते यत्र स तद्गुणसंविज्ञानः । यथा पीताम्बरं पुरुषमानय लम्बोदरं

पुरुषमानयेत्यादौ च । यथा - जन्मोत्पत्तिरादिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिः ।

जन्मस्थितिभङ्गं समासार्थ: (ब्र० सू० १ । १ । २ शा० भा० ) ।
 

 
अतव्यावृत्तिः, अतव्यावृत्ति
१ . तद्भिन्ननिवर्तनम् । योगाचारबौद्धमते नीलत्वादिरूपो धर्मः

अनीलव्यावृत्तिरूपः । २. तद्भिन्नभिन्नत्वम् । यथा गोभिन्नं जगत् तद्भिन्नो

गौरित्यादि । ३. अयमेव अपोह इत्यप्युच्यते ।.
 

 
अतिग्रहः - , अतिग्रह
इन्द्रियविषयः । यथा - ग्रहाः इन्द्रियाणि । अतिग्रहाः तद्विषयाः ।

(ब्र० सू० ४।२।६ शा० भा० ) । यथा च - तत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्येन्द्रिय-

विषयात्मकस्य बन्धनस्य प्रवृतिरिति कर्माश्रयतोक्ता (तत्रैव शा० भा० ) ।
 
-
 
-
 
-
 

 
अत्ता - , अत्ता
परमात्मा । यथा - "अग्निरत्तेति । कुतः अग्निरन्नादः ( बृ० आ०

उप० १।४।६) इति श्रुतिप्रसिद्धिभ्याम् । जीवो वा अत्ता स्यात् । तयोरन्यः पिप्पलं

स्वावत्ति इति दर्शनात् । न परमात्मा । अनश्नन्नन्योऽभिचाकशीति (मु० उप०

३।१।१ ) इति दर्शनादित्येवं प्राप्ते ब्रूमः । अत्तात्र परमात्मा भवितुमर्हति । कुतः

चराचरग्रहणात् (ब्र० सू० १ ।२।९ शा० भा०) । यथा च - अत्तात्र परमात्मा । कुतः

चराचरग्रहणात् । उभे यस्यौदनः इति । मृत्युः यस्योपसेचनं च । इति च श्रूयते (तत्रैव

भा० टी०) । यथा च - "यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योप-

सेचनं क इत्था वेद यत्र सः (क० उप० १ । २ । २४) । इत्यत्र कश्चिदोदनोप-

सेचनसूचितोऽत्ता प्रतीयते । तत्र किमग्निरत्ता स्यात् उत जीवः, अथवा परमात्मेति

संशयः । एवं प्राप्ते ब्रूमः - अत्ता अत्र परमात्मा भवितुमर्हति । कुतः चराचरग्रहणात् ।

चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते । तादृशस्य चाद्यस्य न

परमात्मनोऽन्यः कार्येनात्ता सम्भवति । परमात्मा तु विकारजातं संहरन् सर्वमत्ती-

त्युपपद्यते (ब्र० सू० १ ।२।९ शा० भा०) । यथा च 'अत्तात्र परमात्मा । कुतः चराचर-

ग्रहणात् । उभे यस्यौदनः इति । मृत्युर्यस्योपसेचनमिति च श्रूयते ...। न ह्योदनो

भोगायतनं नापि भोगसाधनमपि तु भोग्यः (तत्रैव भा० टी०) ।