This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१७
 
पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति, स प्रलयकालः । ततः सर्गकाले च

वायवीयेष्वणुषु अदृष्टापेक्षं कर्मोत्पद्यते । तत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्ति।

ततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते । .... कणादा मन्यन्ते ।.... तस्मादनुपपन्नोऽयं

परमाणुकारणवादः । (वृ० सू० २/२/१२ शा० भा०)
 

 
तत्र शाङ्करसिद्धान्तो यथा - सावयवानां द्रव्याणामवयवशो विभज्यमानानां यतः

परो विभागो न सम्भवति ते चतुर्विधा रूपादिमन्तः परमाणवश्चतुर्विधस्य रूपादिमतो

भूतभौतिकस्यारम्भका नित्याश्चेति यद् वैशेषिका अभ्युपगच्छन्ति स तेषामभ्युपगमो



निरालम्ब एव । ..... यच्च नित्यत्वे कारणं तैरुक्तम्- सदकरणवन्नित्यम् (वै० सू०

४।१।१)इति । तदप्येवं सत्यणुषु न सम्भवति । उक्तेन प्रकारेणाणूनामपि कारणत्वोपपत्तेः।

यदपि नित्यत्वे द्वितीयं कारणमुक्तम्-अनित्यमिति च विशेषतः प्रतिषेधाभावः ४।१।४

इति । तदपि नावश्यं परिमाणूनां नित्यत्वं साधयति । असति यस्मिन् कस्मिंश्चिन्नित्ये

वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते, न पुनः परमाणुनित्यत्वमेवापेक्ष्यते । तच्च

नास्त्येव नित्यं परमकारणं ब्रह्म । न च शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य

प्रसिद्धिर्भवति प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात् । यदपि नित्यत्वे कारण-

मुक्तमविद्या च - वै० ४।१।५ इति । तद् यद्येवं विव्रीयेत सतां परिदृश्यमान-

कार्याणां प्रत्यक्षेणाग्रहणमविद्येति । ततो द्व्यणुकस्य नित्यताप्यापद्येत ।.........नावश्यं

विनश्यद् वस्तु द्वाभ्यामेव हेतुभ्यां विनष्टुमर्हतीति नियमोऽस्ति । संयोगसचिवे

ह्यनेकस्मिंश्च द्रव्ये द्रव्यस्यारम्भकेऽभ्युपगम्यमान एतदेवं स्यात्। .... तस्मादप्यनुपपन्नः

परमाणुकारणवादः (ब्र० सू०-२/२/१५ शा० मा०) । एवमेव यथा- उभयथा च

दोषात् (ब्र० सू०२/२/१६) । इत्यत्र शाङ्करभाष्ये गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी

रूपरसस्पर्शगुणाः सूक्ष्मा आपः रूपस्पर्शगुणं सूक्ष्मतरं तेज: स्पर्शगुणः सूक्ष्मतमो वायु-

रित्येवमेतानि चत्वारि : भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमतार-

तम्योपेतानि च लोके लक्ष्यन्ते । तद्वत् परमाणवोऽप्युपचितापचितगुणाः कल्प्येरन् न

वा । उभयथापि च दोषानुषङ्गोऽपरिहार्य एव स्यात् । कल्प्यमाने तावदुपचितापचित-

गुणत्व उपचितगुणानां मूर्त्यपचयादपरमाणुप्रसङ्गः । न चान्तरेणापि मूर्युपचयो

गुणोपचयो भवतीत्युच्यते, कार्येषु भूतेषु गुणोपचये मूर्लुपचयदर्शनात् । अकल्प्यमाने

तूपचितापचितगुणत्वे परमाणुत्वसाम्यप्रसिद्धये यदि तावत् सर्वमेकैकगुणा एव

कल्प्येरँस्ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात्, अप्सु रूपस्पर्शयोः पृथिव्यां च रसरूप-

स्पर्शानाम् । कारणगुणपूर्वकत्वात् कार्यगुणनाम् । अथ सर्वे चतुर्गुणा एव कल्प्येरन् ।