This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
विशेषणमुपलक्षणं वा किन्तूपाधिरिष्यतेऽज्ञानविषयस्य प्रमाणबुद्धिविषयत्वमित्यर्थः
(सं० शा० १/११५ सु० टी० ) । यथा च नाज्ञानमात्मनः उपलक्षणमपि किन्तु
तटस्थं सत् प्रमाणबुद्धेरुपाधिमात्रमिष्यते (तत्रैव अ० टी०) । ७. निग्रहस्थानम् ।
यथा अविज्ञानं चाज्ञानम् (गौ०५/२/१८ ) । विज्ञातार्थस्य परिषदा प्रतिपक्षेण
त्रिभिरभिहितस्य यदविज्ञानं तदज्ञानं निग्रहस्थानमिति । अयं खलु विज्ञाय कस्य प्रतिषेधं
ब्रूयादिति (त० वात्स्या० ) । यथा च परिषदा विज्ञातस्य त्रिभिरभिहितस्याप्यज्ञानम् ।
इदं च किं वदसि - बुद्ध्यत एव नेत्याद्याविष्करणेन ज्ञातुं शक्यत इति (गौ० वृ०
५।६०) । अत्राविज्ञातस्यार्थस्तु वाक्यार्थस्याबोध इति (नील०) । विशदज्ञानार्थमविद्या-
शब्दो द्रष्टव्यः ।
 
१६
 
अज्ञानशक्तिः - अज्ञानस्य शक्तिद्वयम् - १. आवरणशक्तिः २. विक्षेपशक्तिश्च ।
आवरणशक्त्या अपरिच्छिन्नं ब्रह्म परिच्छिन्नं भूत्वा जीवरूपेण भासते, तथा ब्रह्मा-
भिन्नमपि जगद् ब्रह्मभिन्नत्वेन भासते । विक्षेपशक्त्या च रज्जौ सर्पप्रतीतिः शुक्तौ
च रजतप्रतीतिर्भवति । यथा - अस्याज्ञानस्यावरणविक्षेपनामकमस्ति शक्तिद्वयम् ।
आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्यमण्डलमवलोकयितृनयन-
पथपिधायकतया यथाच्छादयतीव तथाज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नम-
संसारिणमवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं सामर्थ्यम् (वे० सा० १
प्र०) । एवमेव अज्ञानस्य मूलाज्ञानं तूलाज्ञानं च भेदद्वयम् । अतो मूलाज्ञानेन ब्रह्मणि
जगदाभासस्तूलाज्ञानेन च रज्ज्वादौ सर्पादिभासः । यथा च - घनच्छन्नदृष्टिर्घनच्छन्नमर्कं
यथा मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद् भाति यो मूढदृष्टेः स नित्योपलब्धि-
स्वरूपोहमात्मा (हस्तामलके १०) । यथा च विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत्
सृजेत् (वे० सा० ) ।
 
-
 
अणुः परमाणुः, जालान्तरगते भानौ रश्मिषु रजःकण इव दृश्यते तस्य
षष्ठितमो भागः सूक्ष्मतमः । यथा भोक्तुमशक्या अणवः ( स० द० आर्हत प्र०) ।
अपकृष्टतमपरिमाणः । स च शाङ्करवेदान्तनये अनित्यः । सर्वेषां भूतानां जन्यत्वात् ।
यतो वा इमानि भूतानि जायन्ते इति श्रुतेः । न्यायवैशेषिकादिनये नित्यः अनवयवारब्धत्वात् ।
पृथिव्यादिमहाभूतपरमाणूनां नित्यत्वाङ्गीकारात् । यथा - न चाकारणेन कार्येण
भवितव्यमित्यतः परमाणवो जगतः कारणमिति कणभुगभिप्रायः । तानीमानि
चत्वारि भूतानिं भूम्युदकतेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः
परिकल्प्यन्ते । तेषां चापकर्षपर्यन्तगतत्वेन परतो विभागासम्भवाद् विनश्यतां