This page has been fully proofread once and needs a second look.

शारवेदान्तकोशः
 
१५
 
-
 
अज्ञानम् - , अज्ञानम्
१. ज्ञानाच्छादकं ज्ञानावरणं वा भावरूपम् । अथवा प्रकृतिः । यथा -

अजडस्य बोधात्मनः स्वप्रकाशस्य तिरस्क्रिया आवरणं तदात्मिका जगद् विक्षेपोपादानं

प्रकृतिः (सं०शा० १ । ३१६ सु०टी०) । यथा च ज्ञानविरोध्यज्ञानमिति । अजडबोध-

तिरस्क्रियात्मा प्रकृतिरज्ञानमिति प्रसिद्धेत्यन्वयः । स्वयंप्रकाशत्वं बोधस्याजडत्वं स्वतः

सिद्धप्रकाशाच्छादनस्वभावेत्यर्थः (तत्रैव अ० टी०) । २. ज्ञाननिर्वर्त्यम् । यथा -

"नाहं प्रकाशः सर्वस्य योगमायासमावृतः (गी० ७२५) इत्यनेन मायावरणमिति ।

अज्ञानेनावृत्तं ज्ञानं तेन मुह्यन्ति जन्तवः (गी० ५/१५) इत्यनेन अज्ञानमावरकमभाणि ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते (गी० ७।१४) ज्ञानेन तु तदज्ञानं येषां

नाशितमात्मनः (गी० ५/१६) इत्यादिना ज्ञाननिर्वर्त्यत्वमभाणि इत्यर्थः ।" (सं०

शा० ३/११० सुं० टी० ) । यथा च - अनादि भावरूपं यद् विज्ञानेन विलीयते ।

तदज्ञानमिति प्राज्ञा लक्षणं सम्प्रचक्षते ( स० द० सं० ) । ३. मिथ्याप्रत्ययलक्षणम् ।

यथा – अज्ञानजम् अविवेकतो जातं मिथ्याप्रत्ययलक्षणं मोहान्धकारं तमो नाशयामि

(गी० १०/११ शा० भा०) यथा च बुद्धियोगप्रदानेनाज्ञानजमविवेकादुत्थितं मिथ्या-

प्रत्ययलक्षणं मोहान्धकारं तमो नाशयामि । (तत्रैव नी० क०) यथा च अज्ञानजम्

अज्ञानोपादानकं तमो मिथ्याप्रत्ययलक्षणं स्वविषयावरणमन्धकारं तदुपादानाज्ञान-

नाशेन नाशयामि (तत्रैव म० सू०) । ४. तिमिरम् । यथा चिद्रूपस्य विषयस्य

चित्येवाश्रये तिमिरादिपदवाच्यम् अज्ञानमित्यर्थः । तिमिरतमिस्रतामिस्रान्धतमसान्ध्य-

शब्दा आवरणावस्थाभेदनिमित्ता श्रुतिस्मृतिप्रसिद्धा: (सं० शा० १ । ३१८ सु० टी०) ।

५. ज्ञानाभावान्यत्वम् अज्ञानस्य । यथा - नाभावस्य आवरकत्वम् इत्युक्तत्वाद् भावरूपमेव

बुध्यस्वेत्यर्थः । नापि ज्ञाननिवर्त्यत्वमप्यभावस्येत्याह - न ज्ञानादिति । तत्क्षय इति ।

षष्ठयर्थे सप्तमी। तत्प्रसूतेरिति भावप्रधानं तत्क्षयस्य तत्रसूतित्वादित्यर्थः ।

स्वप्रागभावनिवृत्तिरूपमेव ज्ञानमिति भावः (सं० शा० ३।११ सु० टी०) । यथा च -

अयमर्थः – अभावप्रतियोगिनः सम्भवः । न चानुत्पन्नोऽलब्धात्मकश्च प्रतियोगी

स्वप्रागभावं निवर्तयेत् । (अनयोस्तु पक्षयोर्न ज्ञाननिवर्त्यत्वं विरोधाभावात् ।) अतो

निवृत्तेः प्रागभावे तत्प्रतियोगिनः प्रसूतिर्वक्तव्या । प्रागभावप्रतियोग्युत्पत्योर्यौगपद्यं वा

तयोरेकत्वं वा वक्तव्यं सर्वथापि न ज्ञाननिर्वर्त्यं तत्प्रागभावः इति ज्ञानप्रागभावादन्य-

देवाज्ञानपदवाच्यं लब्धात्मकेन ज्ञानेन निर्वत्यत इति युक्तमभावान्यत्वम् अज्ञानस्येति

(तत्रैव अ० टी०) । ६. अज्ञानं प्रमाणबुद्धेरुपाधिः । यथा - अज्ञानं हि प्रमाणबुद्धेर्न
 
-
 
-
 
.