This page has been fully proofread once and needs a second look.

कारिकायाम् २।२० इत्यतः २६ पर्यन्तम्) अतः परं लोकाँल्लोकविदः प्राहुराश्रया
इति तदूविदः स्त्रीपुंन्नपुंसकं लैङ्गाः परापरमथापरे (तत्रैव २७) । पुनश्च सृष्टिरिति-
सृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा
(तत्रैव २८ का०) । अतः परं पुनः प्रकारान्तरेण अजातवादो वर्णितः । यथा - यं
भावं दर्शयेद् यस्य तं भावं स तु पश्यति । तं चावति च भूत्वाऽसौ तद्ग्रहः समुपैति
तम् (तत्रैव २९) । एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत्
सोऽविशङ्कितः (तत्रैव ३०) । स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं
दृष्टं वेदान्तेषु विचक्षणैः (तत्रैव ३१) । न निरोधो न चोत्पत्ति र्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता (तत्रैव ३२) ।
 
अजातिः, अजाति
१ . जन्मरहितः अनुत्पत्तिर्वा । यथा- एवं हेतुफलयोः कार्यकारण-
भावानुपपत्तेः अजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशिता (मा०उप०का०४/१९
शा०भा० ) । २. अविद्यमानम् । यथा- भूतं विद्यमानं वस्तु न जायते किञ्चिद-
विद्यमानत्वादेवात्मवदित्येवं वदन् सत्यवादी सांख्यपक्षं प्रतिषेधति सज्जन्म । तथा
अभूतम् अविद्यमानम् अविद्यमानत्वान्नैव जायते शशविषाणवदित्येवं वदन् सांख्योऽपि
असत्यक्षमं सज्जन्म प्रतिषेधति ( मा० उप० का० ४।४ शा० भा० ) । यथा च -
अशक्तिरपरिज्ञानं क्रमकोपोऽथवा पुनः । एवं हि सर्वथा बुद्धैरजातिः परिदीपिता । ( मा०
उप० का० ४।१९) यथा च - भूतं न जायते किञ्चिदभूतं नैव जायते । विवदन्तो
द्वया ह्येवमजातिं ख्यापयन्ति ते (मा० उप० का० ४।४) ।
 
अजातिवादः, अजातिवादः
सत्कार्यवादी सांख्यः सद्भिन्नख्यातिवादिनं न्यायवैशेषिकमाक्षिपति ।
सद्भिन्नख्यातिवादी न्यायवैशेषिकश्च सत्कार्यवादिनं सांख्यमाक्षिपति । तत्र वेदान्तिनां
किञ्चिदपि न जायते । किन्तु मायया अविद्यया वा जगतो जन्म इव प्रतीयत इति
अजातिवादः । यथा - अजातस्य धर्मस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो धर्मो
मर्त्यतो कथमेष्यति । न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो
न कथंचिद्भविष्यति (मा० उप० का० ४।६, ७) यथा च हेतोरादिः फलं
येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते । हेतोरादिः फले
येषामादिर्हेतुः फलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा (तत्रैव १४, १५)
यथा च एवं हि सर्वथा बुद्धैरजातिः परिदीपिता (तत्रैव १९) ।
 
अजीवः, अजीव - १. बोधरहितः । यथा - अवोधात्मकं सर्वं वस्तु ( स० द० सं०
आर्हते) । २. जडम् । ज्ञानरहितम् ।