This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
-
 
अजहल्लक्षणा - लक्षणावृत्तेर्भेदः । न जहाति स्वार्थं या सा अजहल्लक्षणा ।
लक्ष्यतावच्छेदरूपेण लक्ष्यशक्योभयबोधिका । यथा - काकेभ्यो दधि रक्ष्यतामित्यत्र
काकपदस्य दध्युपघातके लक्षणा । यथा - यत्र शक्यार्थमन्तर्भाव्यैवार्थान्तरप्रतीतिस्तत्राजह
ल्लक्षणा । यथा - शुक्लो घटः । अत्र हि शुक्लशब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्वति
द्रव्ये लक्षणया वर्तते (वे० प० ४ प०) ।
 
-
 
अजा - १. तेजोऽबन्नरूपा भूतग्रामोत्पादिका पारमेश्वरी शक्तिः प्रकृतिः ।
यथा – परमेश्वरादुत्पन्ना ज्योतिः प्रमुखा तेजोऽबन्नलक्षणा चतुर्विधप्रकृतिभूतेयमजा
प्रतिपत्तव्या । .... भूतमय लक्षणैवेयमजा विज्ञेया न गुणत्रयलक्षणा । (व्र० सू०
१।४।९। शा० भा०) नायमजाकृतिनिमित्तोऽजाशब्दः । नापि लौकिकः । किं तर्हि
कल्पनोपदेशोऽयम् ।अजारूपकक्लृप्तिस्तेजोऽबन्नलक्षणायाश्चराचरयोनेरुपदिश्यते।.....
यथा आदित्यस्यामधुनो मधुत्वम् (छा० उप० ३।१।१ ) । वाचश्चाधेनोर्धेनुत्वम् ।
(बृ० उप० ६।८।१) धुलोकादीनां चानग्नीनामग्नित्वम् (बृ० उप० ८।२।९) एवम् -
इत्येवं जातीयकं कल्प्यते, एवमिदमनजाया अजत्वं कल्प्यत इत्यर्थः । तस्मादविरोधस्ते-
जोबन्नेष्वजाशब्दप्रयोगस्य (ब्र० सू० १।४।१० शा० भा० ) । यथा च - तेजोऽबन्नलक्षणा
जरायुजाण्डजस्वेदजोद्भिन्नचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या । रोहितशुक्ल-
कृष्णामिति रोहितादिरूपतया तस्या एव प्रत्यभिज्ञानात् । न तु सांख्यपरिकल्पिता
प्रकृतिः (ब्र० सू० १।४।९ भा०) । २. त्रिगुणात्मिका प्रकृतिः । यथा - अजामेकां
लोहित० इत्यादि । (श्वे० उप० ४।५) इति सांख्याः । ३. छागा । यथा - अजाशब्दो
यद्यपि छागायां रूढः (ब्र० सू० १/४/८ भाम० ) ।
 
-
 
-
 
-
 
अजातबादः – सृष्टिविषये अनेके वादाः सन्ति । तत्रैकोऽजातवादः । अस्मिन्
वादे सृष्टि: कदापि न भवति । जगदादिकमजातमेव जातवप्रतीयते । यथा -
अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मर्त्यतां
कथमेष्यति (मा० उप० का० ३।३०) । यथा च - अजायमानो बहुधा विजायते ।
(तै० आ० ३।१३) सृष्टिविषयकाः इमे वादाः - प्राणवादः, भूतवादः गुणवादः,
तत्त्ववादः, पादवादः, विषयवादः, लोकवादः, देववादः, वेदवादः, यज्ञवादः,
भोक्तृवादः भोज्यवादः, सूक्ष्मवादः, स्थूलवादः मूर्तवादः, अमूर्तवादः, कालवादः,
दिग्वादः, वादवादः, भुवनवादः, मनोवादः, बुद्धिवादः, चित्तवादः, धर्माधर्मवादः,
पञ्चविंशकवादः, षड्विंशकवादः, एकत्रिंशकवादः अनन्तवादः । (मा० उप०