2023-03-12 05:00:08 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
-
अचला – "लयविक्षेपशून्या" (गी० २/५३ नील०) "सुषुप्तिमूर्च्छास्तब्धीभावा-
दिरूपलयलक्षणचलनरहिता सती स्थास्यति" (गी० २।५३ मधु०) । यथा च - श्रुति-
विप्रतिपन्नानेकसाध्यसाधनसम्बन्धप्रकाशनश्रुतिभिः श्रवणैर्विप्रतिपन्ना विक्षिप्ता सती
ते तव बुद्धिर्यदा यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चलविक्षेपचलन-
वर्जिता सती समाधौ समाधीयते चित्तमस्मिन् नात्मनीत्येतदचला तवापि
विकल्पवर्जितेत्येतद् बुद्धिरन्तःकरणं तदा तस्मिन्नचले योगमवाप्स्यसि
(गी० २/५३ शा० भा० ) ।
१२
-
अचित् - १. चैतन्यभिन्नम् । २. जडम् । ३. दृश्यम् । ४. ब्रह्मातिरिक्तं
सर्वम् । ५. अज्ञातृत्वम् । ६. अज्ञानत्वम् । ७. अनात्मत्वम् । ८. अस्वप्रकाशत्वम्
(अ० सि० ज० हे०) ।
तत्पदलक्ष्यं ब्रह्मचैतन्यम् ।
अच्युतम् - १. ब्रह्म । यथा स्वरूपादप्रच्युतं
-
(सं० शा० मङ्गलश्लोके सु० टी०) २. विष्णुः ।
अजः
-
१ . आत्मा । यथा स वा एष महानज आत्मा (बृ० उ० ४।४५) ।
यथा च अजः कल्पित संवृत्त्या परमार्थेन नाप्यजः (मा० उ० का० ४।७४) । यथा
च - यस्मादयमात्मा भूत्वा भवनक्रियामनुभूय पश्चादभविता अभावं गन्ता न भूयः
पुनस्तस्मान्न म्रियते । यो हि न भूत्वा न भविता स म्रियत इत्युच्यते लोके, वा शब्दान्न
शब्दाच्चायमात्मा अभूत्वा भविता वा देहवन्न भूयः पुनस्तस्मान्न जायते । यो ह्यभूत्वा
भविता स जायत इत्युच्यते । नैवमात्मा अतो न जायते । यस्मादेवं तस्मादजो यस्मान्न
म्रियते तस्मान्नित्यश्च (गी० २।२० शा० भा०) यथा च - अजो नित्य इति तदुपसंहार
इति विभागः । तत्रैव (म० सू०) यथा च न चायं भूत्वा उत्पाद्य भविता भवति अस्तित्वं
भजते । किन्तु प्रागेव स्वतः सद्रूप इति जन्मान्तरास्तित्वलक्षणद्वितीयविकारप्रतिषेधः ।
तत्र हेतुः यस्मादजः । यो हि जायते स जन्मान्तरमस्तित्वं भजते न तु यः स्वयमेवास्ति
स भूयोऽप्यन्यदस्तित्वं भजत इत्यर्थः (तत्रैव श्रीधरी) । २. जन्मशून्यम् यथा
सर्वकारणत्वान्न विद्यते आदिः कारणं यस्य तमनादिम् अनादित्वाद् अजं जन्मशून्यम् ।
(गी० १०/३ म० सू०) । ३. महेश्वरः अजत्वेन सर्वभूतमहेश्वरत्वेन च । (तत्रैव
भाष्यो०) ४. नित्यम् । यथा - जन्मवान् हि अनित्यः । अयं त्वजत्वान्नित्य इत्यर्थः।
अत एवाजं जन्मरहितं नित्यम् (गी० २।२१ भाष्यो०)।