This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
स्मरणात्मकं ज्ञानद्वयमेव भ्रमपदार्थः । अत्रेत्थं चिन्त्यते चेतनप्रवृत्तिर्ज्ञानपूर्विकैव

भवति नाग्रहणमात्राद् भवितुमर्हति तथा सुषुप्तेऽपि भेदाग्रहसत्वात् प्रवृत्त्यापत्तिः

स्यात्तथा एककाले ज्ञानद्वयानापत्तिश्च स्यात् । (अधिकं ख्यातिशब्दे विभ्रमशब्दे च

द्रष्टव्यम्) यथा च ख्यातिः ज्ञानम् । सुषुप्तौ...। अख्यातिः अज्ञानम् (वि०प्र०सं०आदौ)
 

 
अग्निः - ,अग्नि
१. परमात्मा । यथा अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयेण परमात्म-

विषय एव भविष्यति । गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणं च परमात्मनोऽपि

सर्वात्मत्वादुपपद्यते ( ब्र० सू० १।२।२८ शा० भा० ) । २. हुताशनः । यथा -

अग्निमीडे पुरोहितम् ... (ऋ० वे० १ ।१।१) अग्रे नयतीति अग्निः (निरुक्ते) ।
 
११
 

 
अङ्गुष्ठमात्रः पुरुषः - , अङ्गुष्ठमात्र पुरुष
१. जीवात्मा । यथा - तत्र परिमाणोपदेशात् तावंद्

विज्ञानात्मेति प्राप्तम् । नानन्तायामविस्तारस्य परमात्मनोऽङ्गष्ठपरिमाणमुपपद्यते ।

विज्ञानात्मनस्तूपाधिमत्त्वात् सम्भवति कयाचित् कल्पनयाङ्गुष्ठमात्रत्वम् । स्मृतेश्च -

अथ सत्यवतः कायात् पाशबद्धं वशं गतम् । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो

बलात् (महाभार० ३।२९७।१७) । इति । स्पष्टस्तु परिमाणनिर्देशः । परिमाणभेदश्च

परस्मिन्न सम्भवतीति जीवात्मैवाङ्गुष्ठमात्रः । स खल्वन्तः करणाधुपाधिकल्पितो

भागः परमात्मनः। अन्तःकरणं च प्रायेण हृत्कमलकोशस्थानं हृत्कमलकोशश्च

मनुष्याणाम्ङ्गुष्ठमात्र इति तदवच्छित्रो जीवात्माप्यङ्गुष्ठमात्रः नभ इव

बंशपर्वावच्छिन्नमरलिमात्रम् (ब्र० सू० १ । ३ । २४ शा० मा०) । २. ब्रह्म - यथा -

अङ्गुष्ठमात्रोऽङ्गुष्ठपरिमाणः । अङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छिद्रवर्त्त्यन्तः

करणोपाधिरङ्गुष्ठमात्रोऽङ्गुष्ठमात्रबंशपर्वमध्यवर्त्त्यम्बरवत् । पुरुषः पूर्णमनेन

सर्वमिति । (का० उप० १ ।१२ शा० भा०) अष्ठपरिमाणं जीवमनूध ब्रह्मभावविधानाद्

विधीयमानविरोधाद् अङ्गुष्ठमात्रस्याविवक्षितत्त्वाद् ब्रह्मपरमेव वाक्यमित्याह ।

(तत्रैव आ० गि०) यथा च - अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन स

याति नित्यम् । तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम् (महाभार

उ० प० अ० ४६ । १०) ।
 
-
 
L
 
9
 

 
अचल: , अचल
चलः गतिशीलः, न चलः अचलः = स्थिरः । अचलत्वम्

चित्तधर्मः। वृत्तिनिरोधसहितं चित्तम् = अचलमिदमेव च योग इत्युच्यते, यथाह

पतञ्जलिः - योगश्चित्तवृत्तिनिरोधः (पा० यो० सू० १(२) (२. विकल्पशून्यत्वम्-

यथाह आनन्दगिरिः - अचलत्वं विकल्पशून्यत्वम् (गी० २।५३) ।
 
-
 
-