2023-03-12 05:00:07 by ambuda-bot
This page has not been fully proofread.
१०
शाङ्कुरवेदान्तकोशः
निष्ठम् । सोऽयंविज्ञानमयः ...... इत्यादि त्वंपदार्थनिष्ठम् । प्रकृष्टप्रकाश इत्यादि
तु लौकिकं पदार्थनिष्ठम् । वाक्यार्थनिष्ठमपि वैदिकं तत्त्वमस्यादि वाक्यम् । सोऽयं
देवदत्त इत्यादि तु लौकिकम् (अ० सि० २ परि० अ० ल० ) ।
अखण्डार्थलक्षणम्
-
१. अपर्यायशब्दानाम्पदवृत्तिस्मारितातिरिक्तागोचर-
प्रमाजनकत्वम् । (अ० सि० २ परि० अ० ल०) ।२. अपर्यायशब्दानामेव प्रातिपदिकार्थ-
प्रमापकत्वम् । (तत्रैव गौं० ब्र०) विशदज्ञानार्थम् अ० सि० द्रष्टव्या ।
अखण्डोपाधिः– (उपाधिः) अनिर्वचनीयो धर्मः स च क्लृप्तपदार्थातिरिक्त एव ।
यथा - अनुयोगितात्वप्रतियोगितात्वविषयतात्वादिः (अ० सि० ) ।
अख्यातिः - भ्रमविषये चतुर्दशख्यातयः । तत्र पञ्च प्रसिद्धाः- आत्मख्यातिः
असत्ख्यातिः अख्यातिः अन्यथाख्यातिः अनिर्वचनीयख्यातिः । तत्र अख्यातिः
पूर्वमीमांसकश्रीप्रभाकरगुरोः ।
।
अस्मिन् मते विभ्रमज्ञानं नाङ्गीक्रियते । अतः अख्यातिवाद उच्यते । ज्ञानेन
अर्थानां सिद्धिर्भवति । यदि ज्ञानमर्थव्यभिचारि स्यात् तदा सर्वत्र ज्ञाने ज्ञानसामान्यात्
व्यभिचारित्वसंशयेन कुत्रापि निष्कम्पप्रवृत्तिर्न स्यात् । ते कथयन्ति - अहो वत
महानेष प्रमादो धीमतामपि । ज्ञानस्य व्यभिचारित्वे विश्वास किंनिबन्धनः ।
शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं भ्रमज्ञानमिष्यते । एतच्च न सम्भवति । यतो हि
रजताकारज्ञाने शुक्तिकाया भासमानत्वाभावेन आलम्बनत्वाभावात् । भासमानताया
एवालम्बनपदार्थत्वात् । पुरोवर्तिनि शुक्तिकाशकले इन्द्रियसंन्निकर्षात् चक्षुषा जायमाने
प्रत्यक्षे रजतं कथं भासेत । प्रत्यक्षहेतोः रजतेन्द्रियसंयोगस्य व्यवहिते आपणस्थरते
अभावात् । अपरञ्च इन्द्रियाणां समीचीनज्ञानजनन एव सामर्थ्यं दृष्टमिति हेतोः
असमीचीनज्ञानजनने तेषां न सामर्थ्यम् । दोषसाचिव्येन इन्द्रियाणां भ्रमजनकत्वं
सम्भवतीत्यपि न वाच्यम् । यतो हि दोषाणां कार्यप्रतिबन्धे सामर्थ्यं न तु अपूर्वकार्य-
जनने । अन्यथा दोषयुक्तात् कुटजवीजात् वटाङ्करोत्पत्तिः स्यात् । अतस्तैरुच्यते-
पुरोवर्त्तिशुक्तिशकलेन्द्रियसन्निकर्षेण इदमिति ग्रहणं जायते । ततः तद्गतचाक-
चिक्योद्बोधितरजतसंस्कारात् आपणस्थरजतस्य स्मरणं रजतमित्याकारकं जायते ।
अत्र दोषवशात् तत्तांशस्य प्रमोषात् तत्तामविषयीकुर्वाणा रजतमिति स्मृतिर्जायते ।
रजतार्थी स्वेष्टरजत - भेदस्याग्रहणादिदं रजतमिति व्यवहरति तदादातुं च प्रवर्तते ।
अस्मिन् मते इष्टभेदाग्रह एव भ्रमपदव्यपदेश्यः । स्वरूपतो विषयतश्चागृहीतभेदग्रहण-