This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 

 
त्वनन्तादिपदैर्बाध्यते वैशिष्ट्यम् । एवं च अविशिष्टमपर्यायानेकशब्दप्रकाशितम् ।

एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे (तत्रैव वे० क० त० ) । तथा च इदमेव

तत्त्वमस्यादिवाक्यानामखण्डार्थत्वम् - यत् संसर्गानवगाहियथार्थज्ञानजनकत्वमिति ।

तदुक्तम् – संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताखण्डार्थता यद्वा

तत्प्रातिपदिकार्थता (१) । प्रातिपदिकार्थमात्रपरत्वं
 

 
चतुर्थपादार्थः (वे० प० १ प्र०) । यथा च - अपर्यायशब्दानां

जनकत्वमखण्डार्थता । नापि प्रमाणासम्भवः । तथाहि -

संसर्गव्यतिरेकिणि । अर्थे प्रमाणं मानत्वान्नयनादिप्रमाणवत् (त०प्र० १।२०) ।

यथा च - अत्राहुः किमखण्डार्थत्वम् । न तावद् निर्भेदार्थत्वम् । यतो निर्भेदार्थत्वस्य

शाब्दबोध्यत्वे विशेषणतायामुपलक्षणतायां च निर्घटं भूतलमितिवत् सखण्डार्थ-

त्वापत्तिः । शब्दाबोध्यत्वे तु वस्तुगत्या यन्निर्भेदं ब्रह्म तद्बोधकं सगुणवाक्या-

नामपि अखण्डार्थत्वापत्तिः ।.... यत्तु अपर्यायशब्दानां संसर्गागोचरप्रमितिजनकत्वं

वा तेषामेकप्रातिपदिकार्थमात्रपर्यवसायिस्वं वा अखण्डार्थत्वम् । अत्रोच्यते-

....

पदवृत्तिस्मारितातिरिक्तमत्र संसर्गपदेन विवक्षितम् । तथा च अपर्यायशब्दानां

पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वमाद्यलक्षणं पर्यवसितम् ।.. ननु प्रवृत्तिनिमित्तभेदे

अपर्यायत्वम् । स चानन्तादिपदेषु न सम्भवति शुद्धब्रह्ममात्रपरत्वात् । अतो वेदान्तेषु

लक्षणाऽव्याप्तिरिति चेत्, न । प्रवृत्तिनिमित्तभेदं स्वीकृत्यैव लक्षणया अनन्तादिपदानां

शुद्धब्रह्मपरत्वस्य वक्ष्यमाणत्वात् । न च शुद्धे सम्बन्धाभावान्न लक्षणापीति वाच्यम् ।

अतात्त्विकसम्बन्धेनैव लक्षणोपत्तेः (अ० सि० अख०)
 

 
वाखण्डार्थत्वमिति

संसर्गागोचरप्रभिति-

सत्यज्ञानादिगीरेतत्
 
-
 

 
-
 
अखण्डार्थप्रमाणम्-, अखण्डार्थप्रमाण
एवं लक्षणसम्भवे प्रमाणसम्भवोऽपि । तथा हि सत्यादिवाक्यम्

अखण्डार्थनिष्ठं ब्रह्मप्रातिपदिकार्थनिष्ठं वा लक्षणवाक्यत्वात् तन्मात्रप्रश्नोत्तरत्वाद्वा

प्रकृष्टप्रकाशश्चन्द्र इत्यादिवाक्यवदितिं पदार्थविषयाखण्डार्थत्वानुमानम् । तत्त्वमस्यादि-

वाक्यमखण्डार्थनिष्ठमात्मस्वरूपमात्रनिष्ठं वा अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति

समानाधिकरणत्वात् तन्मात्रप्रश्नोत्तरत्वाद् वा सोऽयमित्यादिवाक्यवदिति वाक्यार्थ-

विषयाखण्डार्थत्वानुमानम् (अ०सि० २ प०अ०) ।
 

 
अखण्डार्थभेदः - , अखण्डार्थभेदः
यथा - तच्चाखण्डार्थं द्विविधम् - एकं पदार्थनिष्ठम्, अपरं

वाक्यार्थनिष्ठम् । एकैकं व पुनः वैदिकलौकिकभेदेन द्विविधम् । पदार्थनिष्ठं वैदिकमपि

द्विविधम् - तत्पदार्थनिष्ठं त्वंपदार्थनिष्ठं च तत्र-सत्यं ज्ञानमनन्तमित्यादि तत्पदार्थ-
-
 

-