2023-03-19 14:09:21 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
प्रोतश्चेति" इत्युपसंहृतं श्रुत्या सर्वोपाधिशून्यं सर्वत्र प्रशास्तृ अव्याकृताकाशान्तस्य
कृत्स्नस्य प्रपञ्चस्य धारयितृ अस्मिंश्च शरीरेन्द्रियसंघाते विज्ञातृ निरुपाधिकं चैतन्यं
तदिह ब्रह्मेति विवक्षितम् (गीता ८।३ म० सू० ) । यथा च "त्वमक्षरं न क्षरतीति
परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः (गीता० ११/१८ शा० भा०) । परममक्षर-
मस्थूलादिलक्षणम् । अक्षरं ब्रह्म परमम् इत्यत्र प्रागुक्तं निष्कलं ब्रह्म तदेव त्वमसि
(गीता ११/१८ नी० क०) । त्वमेवाक्षरं परमं ब्रह्म (गीता ११/८ श्रीधरी) ।
२. मोक्षः, ३. लक्ष्मीपतिरिति मध्वादिवैष्णवाः । ४. भगवद्धामविशेष इति वैष्णवाः ।
५. शब्दब्रह्म इति वैयाकरणाः । यथा - अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
वितर्ततेऽर्थभावेन प्रक्रिया जगतो यतः (वा० प० १।१ ) । ६. वर्णः अकारदिः
वैयाकरणकाव्यज्ञप्रभृतयः । यथा- यदक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं
व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।
८
-
अखण्डम्, अखण्ड
खण्डरहितम्, एकम्, अद्वितीयम्, भेदरहितम्, अपर्यायानेकशब्द –
प्रकाशितम् । यथा- अविशिष्टमपर्यायानेकशब्दप्रकाशितम् । एकं वेदान्तनिष्णाता
अखण्डं प्रतिपेदिरे (ब्र० सू० १ । १ ।२ वे० क० त० ) । यथा च - एवमपर्यायानेक-
शब्दप्रकाशितमविशिष्टमित्यखण्डलक्षणोक्त्या………..। (तत्रैव कल्पतरुपरिमले) । एवं च
अखण्डं ब्रह्म ।
-
अखण्डार्थः, अखण्डार्थ
तत्त्वमसि इत्यादिवाक्योत्थो बोधोऽखण्डार्थः स च ब्रह्म । इदं
च ज्ञानं निर्विकल्पकम् । अत्रोच्यते सोऽयं देवदत्त इत्यादौ यथा विशिष्टवैशिष्ट्या-
वगाहि ज्ञानं सविकल्पकं तथैव तत्त्वमसि सत्यं ज्ञानमित्यावपि । अतः कथं तत्त्वमसि
इत्यादौ निर्विकल्पकम् अखण्डार्थश्च । अतः कथ्यते - संसर्गागोचरापर्यायानेकशब्दप्रति-
पादितोऽर्थः अखण्डार्थः । यथा - एवमपर्यायानेकशब्दप्रकाशितमविशिष्टम-
समभिव्याहृतपदार्थान्तरार्थसंसर्गागोचरप्रमितिजनकं
वाक्यमखण्डार्थमित्यखण्डार्थलक्षणं सूचितं भवतीति द्रष्टव्यम् (ब्र० सू० १ । १ । २
वे० क० त० प०) । यथा च यत्र पदार्थः प्रमितः । तत्र स एवेतरपदार्थविशिष्टः
खण्डमित्यखण्डलक्षणोक्त्या
• प्रतिपाद्यः । यस्त्वज्ञातः सन् नान्यैः शक्यो विशिष्टुमिति स एव वाक्येन प्रमेयः । प्रमिते
चैतस्मिन् वाक्यस्य समाप्तेर्न विशिष्टपरत्वम् । यथा - प्रकृष्टप्रकाशश्चन्द्र इति
प्रकर्षप्रकाशद्वारा चन्द्रलक्षणात् न तद्वैशिष्ट्यं मानान्तरादेव तत्सिद्धेः । उपायस्तु
वैशिष्ट्यम् अखण्डचन्द्रसिद्धौ । तच्चाविरोधात् चन्द्रेऽनुज्ञायते । सत्यादिवाक्ये