This page has not been fully proofread.

शावेदान्तकोशः
 
(ब्र०सू० १ । २ । २१ शा० भा०) । यद् यस्मादर्थे न च अक्षरशब्दप्रत्यभिज्ञानाद् भूतयोनि-
रेवाक्षरादिति निर्दिष्टेति वाच्यम् । प्रथमश्रुतेः यः सर्वज्ञ इति वाक्ये सर्वज्ञस्य
जगदुपादानत्वप्रत्यभिज्ञयाऽस्य बाध्यत्वात् । येनाक्षरं पुरुषं सत्यम् इति पुरुषस्याक्षर-
शब्देन निर्देक्ष्यमाणत्वाच्च (तत्रैव वे० क० त०) । अक्षरात् परत इत्यत्र प्रत्यभिज्ञानं
श्रुतिप्रत्यभिज्ञानत्वात् तथाक्षरात् सम्भवतीह विश्वं तथाक्षराद् द्विविधाः सोम्य भावा
इत्यतः प्रत्ययकृतस्यापि विशेषस्याभावेन.... बलवदित्याशयः (तत्रैव वे०क० त०प० ) ।
यथा च - क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते (गी० १५/१६) । क्षरश्च
क्षरतीति क्षरो विनाश्येको राशिरपरः पुरुषोऽक्षरस्तद्विपरीतो भगवतो मायाशक्तिः
क्षराख्यस्य पुरुषस्योत्पत्तिबीजमनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयोऽक्षरः पुरुष
उच्यते (गीता १५/१६ शा० भा०) । कूटस्थो निर्विकारो मायोपाधिरक्षरः ।
तदुपाधेरकर्मकत्वेन नाशासम्भवात् । उपाधिदोषेणावशीकृतत्वाच्चासौ न क्षरति रूपान्न
च्यवत इत्यक्षरः (तत्रैव १६ नी० क०) । तेनावरणविक्षेपशक्तिद्वयरूपेण स्थितः कूटस्थः
भगवान् मायाशक्तिरूपकारणोपाधिः संसारबीजोपाधित्वेनानन्त्यादक्षर उच्यते (गीता
१५/१६ म० सू०) संसारबीजानन्त्यान्न क्षरतीत्यक्षरो भगवतो मायाशक्तिः क्षराख्य-
स्योत्पत्तिबीजमनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयोऽक्षर उच्यते (तत्रैव १५/१६
भाष्यो०)। यथा च कूटः शिलाराशिः पर्वत इव देहेषु नश्यत्स्यपि निर्विकारतया
तिष्ठतीति कूटस्थश्चेतनो भोक्ता । स तु अक्षरः पुरुष इत्युच्यते विवेकिभिः (तत्रैव
श्रीधरी ) । यथा च ब्रह्माक्षरं निरस्तसर्वोपाधित्वादव्यक्तमकरणगोचरम् । यद्धि लोके
करणगोचरं तद् व्यक्तमुच्यते । अज्ज्धातोस्तत्कर्मत्वादिदं त्वक्षरम् (गीता १२/१
शा० भा० ) । यथा च - ये चाप्येवं सततयुक्ता अक्षरमव्यक्तं पर्युपासते तेषामुभयेषां
के योगवित्तमाः (गीता १२।१ भाष्यो०) । यथा च न क्षरति अश्नते वेत्यक्षरम् (गीता०
१२ । १ आ० गि०) । यथा च अक्षरं न क्षरतीति पर आत्मा ।"एतस्य वाक्षरस्य प्रशासने
गार्गि इति श्रुतेः । ओंकारस्य चोमित्येकाक्षरं ब्रह्मेति परेण विशेषणात् तद् ग्रहणम् ।
परमिति च निरतिशये ब्रह्मणि अक्षरम् उपपन्नतरं विशेषणम् (गीता ८।३ शा० भा०) ।
यथा च - तत्र किं तद् ब्रह्मेत्येतस्योत्तरमक्षरं परमं ब्रह्म । मत्परमक्षरं तद् ब्रह्मेति
योजना (गीता० ८।३ नी० क०) । अक्षरं न क्षरतीत्यविनाशि अश्नते वा सर्वमिति
सर्वव्यापकमक्षरत्वात् 'एतद् वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु
इत्याद्युपक्रम्य "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः"
"नान्यदतोऽस्ति द्रष्टृ इत्यादिमध्ये परामृश्य "एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओत-
S