2023-03-12 05:00:06 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
कर्मणां त्यागः संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः
(तत्रैव १८।२) ।
अक्षयः - क्षयरहितो नाशरहितो वा परमेश्वरः । यथा - अक्षय प्रवाहरूपः
कालोऽहमेव कालः कलयतामित्यत्रायुर्गणनात्मकः संवत्सरशताद्यायुः स्वरूपकाल
उक्तः, स च तस्मिन्नायुषि क्षीणे सति क्षीयते । अत्र तु प्रवाहात्मकोऽक्षयः काल उच्यत
इति विशेषः (गीता १० । ३३ श्रीधरी) । क्षयकालाभिमानी अक्षयः परमेश्वराख्यः
कालज्ञः - कालकालो गुणी सर्वविद्यः इत्यादिश्रुतिप्रसिद्धोऽहमेव ( गी० १० । ३३
म० सू०) अक्षयः क्षयवर्जितः । कालोऽहमेव । यद्वा कालस्य कालः परमेश्वरोऽहमेव
(गी० १०/३३ भाष्यो०) ।
-
अक्षरम् - १. क्षरतीति क्षयो नाशस्तद्रहितम् अक्षरम् = अविनाशि तच्च
ब्रह्म इति शाङ्करवेदान्तिनः । यथा - अत एतद्धि एवाक्षरं ब्रह्म अपरमेतद्धि
एवाक्षरं परं च (का० उप० २।१६ शा० भा०) । सहोवाच एतद् वै तदक्षरं गार्गि
ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाश-
-
मसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽ तेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न
तदश्नाति किञ्चन न तदश्नाति कश्चन ( बृ० आ० उप० ३१८१८) । अत्र -
एतद्ध्यक्षरं सर्वव्यवस्थासेतुः सर्वमर्यादाविधारणम् (शा० भा० ) । एतस्मिन् नु
खल्वक्षरे गार्ग्याकाश ओतः प्रोतश्चेति (बृ० आ० उप० ३।८।११ ) । यथा - उच्यते-
पर एवात्मा अक्षरपदवाच्यः । कस्मात् अम्बरान्तधृतेः- पृथिव्यादेराकाशान्तस्य विकार-
जातस्य धारणात् । .... तस्मान्न क्षरत्यश्नते चेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव
ब्रह्म (ब्र० सू० १ ।३।३० शा० भा०) । यथा - अक्षरं परमात्मैव न तु वर्णाः ।
कुतः अम्बरान्तर्धृतेः । न खल्वम्बरान्तानि पृथिव्यादीनि वर्णा धारयितुमर्हन्ति । किन्तु
परमात्मैव तेषां परमात्मविकारत्वात् (ब्र० सू० १।३।१० शा० भा०) । यथा च -
अक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतं सर्वस्मात्
विकारात् परो योऽविकारस्तस्मात् परतः पर इति भेदेन व्यपदेशात् परमात्मानमिह
विवक्षितं दर्शयति (ब्र० सू० १ । २ । २२ शा० भा०) । तस्मादेतद् ब्रह्म नामरूपमन्नं
च जायत इति । तस्मान्निर्देश्यसाम्येन प्रत्यभिज्ञायमानत्वात् प्रकृतस्यैवाक्षरस्य भूतयोनेः
सर्वज्ञत्वं सर्ववित्त्वं च धर्म इत्युच्यते (ब्र०सू० १ । २।२१ शा० भा०) । यथा च अथ
परा यया तदक्षरम् अधिगम्यत इत्यादि । तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम्