This page has been fully proofread once and needs a second look.

वारणाय यत्पदार्थे विशिष्टद्वयाघटितत्वविशेषणं च दत्तम् । तत्रैव जातित्वेन
हृदत्वावगाहिजातिमान् वन्यभाववान् इत्यप्रतिबन्धकज्ञानमादायासम्भववारणाय
लक्षणघटकज्ञानपदार्थे अव्यापकविषयिताशून्यत्वविशेषणमपि दत्तं गदाधरभट्टाचार्यै
रिति इदं च बोध्यम् । वेदान्तिनस्त्वाहुः - हेत्वाभासः (हेतुदोषः) । उपपत्तिदोषः
इत्युच्यते । उपपत्तिदोषो द्विविधः । १. विरोधः । २. असङ्गतिश्चेति । तत्र आद्यः
जातिनिग्रह- स्थानहेत्वाभासेभ्य: सगृहीतः ( प्र० च० ) । स च विरोधस्त्रिविधः-
प्रतिज्ञाविरोधः, हेतुविरोधः दृष्टान्तविरोधश्च । तत्र प्रतिज्ञाविरोधो द्विविधःप्रमाणविरोधः
स्ववचनविरोधश्च । तत्र प्रमाणविरोधोऽपि द्विविधः - प्रबलप्रमाणविरोधः समबल
प्रमाणविरोधश्च । तत्र प्रबलप्रमाणविरोधस्योदाहरणं प्रपञ्चो मिथ्या दृश्यत्वात् ।
यद् दृश्यं तन् मिथ्या यथा शुक्तिरजतमिति । अत्र सन् घटः इत्यादिप्रत्यक्षेण विमतं
सत्यम्अर्थक्रियाकारित्वात् सम्प्रत्तिपन्नवत् इत्याद्यनुमानेन विश्वं सत्यमित्यागमेन
च जगतः सत्यत्वावधारणात् प्रबलप्रमाणविरोधो द्रष्टव्यः (प्र० च० पृ० २९ ) ।
अयं हेतुर्नैयायिकैः बाधित इत्युच्यते । समबलप्रमाणविरोधस्योदाहरणं तु विमतं मिथ्या
दृश्यत्वात् शुक्तिरजतवत् विमतं सत्यं प्रामाणिकत्वात् आत्मवदिति । अत्रानुमानद्वये
व्याप्तिपक्षधर्मतयोः साम्यात् समबलप्रमाणविरोधो ज्ञातव्यः (प्र० च० पृ० २८) ।
अयं च हेतुर्नैयायिकैः सप्रतिपक्षित इत्युच्यते । स्ववचनविरोधोऽपि द्विधा-
अपसिद्धान्तः जातिश्चेति (न्यायकोश:) ।
 
हलादः, हलाद
१. आनन्दं ब्रह्म च.... ब्रह्मणः स्वरूपलक्षणञ्च । यथा-
विज्ञानमानन्दं ब्रह्म (बृ० उ० ३।९।२८) । 'आनन्दो ब्रह्मेति व्याजानात्' (तै० उ०
३।६) । आनन्दश्च निरतिशयं सुखम् । यथा - सुखं च द्विविधम् - सातिशयं निरतिशयं
चेति । तत्र सातिशयं ! सुखं विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृता-
नन्दलेशाविर्भावविशेषः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ० उ०
४ । ३ । २) । निरतिशयं सुखं च ब्रह्मैव (वे० प० ८ १० ) । इत्यद्वैतवेदान्तिनः ।
वल्लभवेदान्तिमते ब्रह्मणस्तिस्रः शक्तयः स्वरूपशक्तिः, तटस्थशक्तिः मायाशक्तिश्च ।
स्वरूपशक्तिस्त्रिधाभिव्यज्यते - सन्धिनी संवित् ह्लादिनी चेति । विष्णुपुराणे उक्तम्-
हलादिनी सन्धिनी संवित् त्वय्येका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते
(६।७।६२) ।
२. आनन्दविशेषः । यथा - यथा प्रह्लादनाच्चन्द्रः (रघु० ४।१२) ।
इत्यादौ ह्लादनशब्दार्थः । आलङ्कारिकास्तु चमत्कृतिः । यथा- चन्द्र इव मुखं