This page has not been fully proofread.

५०४
 
शावेदान्तकोशः
 
(तत्रैवं भाष्यो०) । यथा च भो हृषिकेश सर्वेन्द्रियनियामक हे केशिनिषूदन केशिनाम्नो
हि महतो हयाकृतेर्दैत्यस्य युद्धे मुखं व्यादाय भक्षयितुमागच्छतो व्यात्ते मुखे वामबाहुं
प्रवेश्य तत्क्षणमेव विवृद्धेन तेनैव बाहुना कर्कटिकाफलवत् तं विदार्य निषूदितवान् ।
अत एव हे महाबाहो इति सम्बोधनम् (तत्रैव श्रीधरी) ।
 
हेतुः- करणविशेषः । हेतौ (२।३।२३) । इतिपाणिनीये सूत्रे यथा - द्रव्यादि-
साधारणं निर्व्यापारसाधरणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं
च । यथा च – 'साधकतमं करणम्' (पाणिनिसू० १।४।४२) । १ . ज्ञापकः । यथा
पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान् धूमादित्यादौ धूमः । अयमेव लिङ्गशब्देन
अनुमानशब्देनापि च व्यवह्रियतं इति बोध्यम् । अत्र सूत्रम्- हेतुरपदेशो
लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् (वै० सू० ९।२।४) । अत्र ज्ञापकं ज्ञानविषयत्वरूपं
प्रयोजकत्वमेव हेतुत्वं ज्ञानज्ञाप्यत्वरूपं हेतुमत्त्वं वा तृतीयार्थ: (ग० व्यु० का० ३
पृ० ८७) । केचित्तु परामर्शीयप्रकारत्वं हेतुत्वमित्यङ्गीचक्रुः । स चायं हेतुर्द्विविधः
सद्धेतुः असद्धेतुश्चेति । तत्राद्यः पर्वतादिपक्षकवन्यादि साध्यकस्थले धूमादिः ।
द्वितीयो हेत्वाभासः दुष्टहेतुः । अत्रेदं विज्ञेयम् । पक्षसत्त्वसपक्षसत्त्वविपक्षा-
सत्त्वाबाधितविषयत्वासप्रतिपक्षत्वैतत्पञ्चरूपोपन्न एव हेतुः सद्धेतुर्भवति । क्वचिच्-
चतूरूपोपन्नोऽपि हेतुः सद्धेतुर्भवति । यथा इदं वाच्यं ज्ञेयत्वात् इत्यादौ ज्ञेयत्वं
सद्धेतुः । क्वचित् त्रिरूपोपन्नोऽपि हेतुः सद्धेतुर्भवति । यथा प्रमेयमभिधेयत्वात्
इत्यादावभिधेयत्वं सद्धेतुर्भवति (ल० व० २ पृ० २७) इति । (न्यायकोशः) ।
 
-—
 
-
 
-
 
हेत्वाभासः- १. हेतोर्दोषः । (क) यस्य हि ज्ञानमनुमितिप्रतिबन्धकं सः
(वि० २ बाध० पृ० ११६) । यत्र हेतोः हेतौ वा आभास इति व्युत्पत्त्या हेत्वाभासपदस्य
हेतुदोष इत्यर्थः । हेत्वाभासत्त्वं च अनुमितिकरणीभूताभावप्रतियोगि- (अनुमिति -
प्रतिबन्धकम्) यथार्थज्ञानविषयत्वम् । अनुमितिप्रतिबन्धकीभूतयथार्थज्ञानविषयत्वम्
इति समुदितार्थ: (त० दी० २) । यद्विषयकत्वेन (लिङ्ग) ज्ञानस्य अनुमितिविरोधित्वं
तत्त्वमिति वा । अत्रेदमधिकं विज्ञेयम् । गदाधर्यां द्वितीयहेत्वाभासलक्षणे ह्रदो वह्नि
मान् धूमात् इत्यादौ प्रमेयत्वविशिष्टबाधस्य (प्रमेयत्वविशिष्टवन्यभाववद्धदस्य)
दोषानङ्गीकारादलक्ष्यतया तत्रातिव्याप्तिवारणाय लक्ष्यघटकयत्पदार्थे विशिष्टान्वराः
घटितत्वविशेषणम् । तत्रैव · वन्यभाववज्जलादिमद्वृत्तिजलवध्रदादावतिव्याप्ति-