This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
उपाधिगताशुद्धिबाहुल्यात् संसारित्वमेव प्रायशोऽभिलप्यते । व्यावृत्तकृत्स्नोपाधिभेदा-
पेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः (बृ० आ० उ० १।४।६ शा०
भा० ) । यथा च - प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रपद्यते । हिरण्यगर्भतामीशस्तयोर्व्यष्टि-
समष्टिता (प० द० १.२४) । ईश: विशुद्धसत्त्वप्रधानमायोपाधिः परमेश्वरस्तत्र शरीरे
अहमित्यभिमानेन हिरण्यगर्भतां हिरण्यगर्भसंज्ञकत्वं प्रपद्यत इत्यनुषङ्गः (तत्रैव रा०
कृ० टी०) । यथा च - तस्मादव्याकृताद् व्याचिकिर्षितादन्नात् प्राणो हिरण्यगर्भः
(ब्र० सू० १/१/५ भाम० ) । यथा च - जीवानां हि सर्वेषां करणपरिवृतानां
सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि संघातोपपत्तेर्भवति ब्रह्मलोके जीवघन:
( ब्र० सू० १।३।१३ शा० भा० ) । यथा च स हि सर्वकरणात्मनः सूत्रात्मनो
हिरण्यगर्भस्य भगवतो निवासभूमितया करणप्रवृत्तानां जीवानां संघात इति भवति
जीवघनः (तत्रैव भाम०) । यथा च - हे सत्यकाम परं निर्विशेषमपरं हिरण्यगर्भाख्यं
च यद् ब्रह्म तदेतदेव (तत्रैव वे० क० त० ) । ४. वैश्वानरः । यथा - तैरण्डस्तत्र
भुवनं भोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन् देहे वैश्वानरो भवेत्
( प० द० २।२८) ।५. प्रथमो जीवः । यथा च - हिरण्यगर्भादिद्वारा हन्ताहमिमास्तिस्रो
देवताः अनेन जीवात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि - छा० उ० ६।३।२-
श्रुतेः । हिरण्यगर्भो नाम मूर्त्तित्रयादन्यः प्रथमो जीवः । स वै शरीरी प्रथमः स वै
पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ हिरण्यगर्भः समवर्तताग्रे
भूतस्य (यजुः १३/४ ऋ० वे० १०/१२०/१) (वे० प० ७ प०) ।
 
५०३
 
1
 
-
 
हृदयम् - अन्तःकरणस्य स्थानम् । यथा - तत्र बुद्धेरन्तःकरणस्य हृदयं
स्थानम् । तत्रस्थबुद्धितन्त्राणि चेतराणि बाह्यानि करणानि (बृ० आ० उ० २/१/१
शा० भा० ) ।
 
हृषीकेशः - हृषीकाणामिन्द्रियाणामीशः इन्द्रियनियामकः यथा - केशिनिषूदन
केशिनामा कश्चिदसुरस्तं निषूदितवान् वासुदेवस्तेन तन्नाम्ना सम्बोध्यतेऽर्जनेन
(गी० १८/१ शा० भा०) । हे हृषिकेश हे केशिनिषूदनेति (तत्रैव नी० क०)
महाबाहो केशिनिषूदनेति बाह्योपद्रवनिवारणरूपयोग्यता फलोपधाने प्रदर्शिते (तत्रैव
म० सू०) । यथा च - सर्वेन्द्रियनियन्तुरन्तर्यामिणः सर्वस्य मदभिप्रायानुसारेणैतत् कथनं
सुकरमिति द्योतयन्नाह - हृषीकेशेति । स्वजनसुखार्थं केश्यादिदुष्टनिषूदनस्य तव
स्वभक्तस्य ममाप्यज्ञाननिषूदनं युक्तमेवेति सूचयन् सम्बोधयति केशिनिषूदनेति