This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
हर्षः - , हर्ष
स्वेष्टार्थलाभे उत्साहः । यथा- हर्षामर्षभयोद्वेगैः हर्षश्चामर्षश्च भयं

चोद्वेगश्च तैर्हर्षामर्षभयोवेगैर्मुक्तः । हर्षः प्रियलाभेऽन्तःकरणस्योल्लासो

रोमाञ्चनाश्रुपातादि।लेङ्गः (गी० १२/१५ शा० भा० ) । यथा च - किं च हर्षः स्वस्य

प्रियलाभे रोमाञ्चनाश्रुपातादिहेतुरानन्दाभिव्यञ्जकश्चित्तवृत्तिविशेषः (तत्रैव म०

सू०) । यथा च - 'प्रियलाभेऽन्तःकरणस्योत्कर्षो रोमाञ्चनाश्रुपातादिलिङ्गो हर्षः' (तत्रैव

भाष्यो०) । यथा च - तत्र हर्षः स्वेष्टार्थलाभे उत्साहः (तत्रैव श्रीधरी) । यथा च

अत एव हर्ष इष्टलाभे सति मनस उत्फुल्लता (तत्रैव नी० क० ) ।
 
-
 
५०२
 
-
 

 
हंसः - , हंस
सूर्यः । यथा - हन्ति गच्छतीति हंसः (का० उ० ५।२ शा० भा०) ।

यथा च – असौ वादित्यो हंसः शुचिषत् इति ब्राह्मणेनादित्यो मन्त्रार्थतया व्याख्यातः

(तत्रैव आ० गि०) । हंसः पक्षिविशेषे, संन्यासिभेदे च ।
 
4
 
-
 
-
 
.
 

 
हार्दविया - द्या, हार्दविद्या
हृदयविद्या, दहरविद्या । उपनित्सु प्राणविद्याभूमविद्याप्रभृतय

अनेका विद्याः सन्ति । यत्र ब्रह्मविचारो वर्तते तास्वन्यतमेयम् । यथा - अस्ति हार्द-

विद्या – अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म - छा० उ० ८1१19 -

इत्युपक्रम्य विहिता । तत्प्रक्रियायाम्- 'अथ या एता हृदयस्य नाड्यः' - छा० उ०

८।६।१ – । इत्युपक्रम्य ..... 'तस्माच्छताधिकया नाड्या निष्कामन् रश्म्यनुसारी

निष्क्राति' (ब्र० सू० ४।२।१८ शा० भा०) । यथा च - 'शतं चैका च हृदयस्य

नाड्यस्तासां मूर्धानमभिनिःसृतैका तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ख्या उत्क्रमणे

भवन्ति' (छा० उ० ८।६।६) ।
 
…..
 

 
हिरण्यमयम् - , हिरण्यमय
सुवर्णवज्ज्योतिर्मयम् (ब्रह्म) यथा- 'हिरण्मयमिव हिरण्यम

ज्योतिर्मयमित्येतत्' (ई० उ० १५ शा० भा०)।
 
-
 

 
हिरण्यगर्भः, हिरण्यगर्भ
१ . जीवसमष्ट्यभिमानी । २. सूत्रात्मा । ३. प्राणाश्च । यथा -

एतत्समष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते सर्वत्रानुस्यूतत्वाज्ज्ञाने-

च्छक्रियाशक्तिमदुपहितत्वाच्च (वे० सा०) । यथा च - समष्टिसूक्ष्मशरीराभिमानी

हिरण्यगर्भः (ब्र० सू० ४ । ३ । ३ शा० भा०) । यथा च - एकत्वं नानात्वं च हिरण्य-

गर्भस्य तथा सर्वजीवानाम् । तत्त्वमसि (छा० उ० ६/८/१६) इति श्रुतेः । हिरण्यगर्भस्तु

उपाधिशुद्ध्यतिशयापेक्षय़ा प्रायशः पर एवेति श्रुतिस्मृतिवादाः प्रवृत्ताः । जीवानां तु