2023-03-26 06:23:27 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
हि कार्येन परमार्थवस्तुधर्मेणाभिव्यक्तस्वरूपः स्वप्नः । किं पुनरत्र कार्यमभिप्रेतं
देशकालनिमित्तसम्पत्तिरबाधश्च । न हि परमार्थवस्तु-विषयाणि देशकालनिमितान्यबाधश्च
स्वप्ने सम्भाव्यन्ते । न तावत् स्वप्ने रथादीना-मुचितो देशः सम्भवति । न हि
संवृते देहदेशे रथादयोऽवकाशं लभेरन् ।.....तदनन्यत्वमारम्भणशब्दादिभ्यः (ब्र० सू०
२।१।१४)। इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक्तु ब्रह्मात्मत्वदर्शनाद्
वियदादिप्रपञ्चो व्यवस्थितरूपो भवति सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यत इति ।
अतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् (ब्र० सू० ३/२/१, ३, ४ शा०
भा० ) ।
५०१
स्वाप्ययः
स्वस्य आत्मनंः अपि अयः लयः । ब्रह्मणा सम्पन्नावस्था सुषुप्तिरिति ।
यथा - स्वाप्यय: सुषुप्तम् । स्वमपीतो भवति तस्मादेनं स्वपीतीत्याचक्षते - छा०
६।८।१ - इति श्रुतेः । (ब्र० सू० ४।४।१६ शा० भा० ) ।
-
स्वाभाविकम्
आरोपरहितम् । यथा - ज्ञानस्य सज्ञेयत्वं सज्ञातृत्वं च न
स्वाभाविकम् । तथा हि - सज्ञेयत्वं तावत् ज्ञेयजन्यत्वं वा ज्ञेयव्याप्यत्वं वा । नाद्यः
'परोक्षज्ञाने ईश्वरज्ञाने चाभावात् । न वा द्वितीयः । यदाज्ञानं तदा अर्थ इति
कालिकव्याप्तौ पूर्ववत् व्यभिचारात् । दैशिकव्याप्तिस्तु दूरनिरस्तैव (अ० सि०
जडत्वहेतु०)। यथा च स्वाभाविकम्अनारोपितम् (तत्रैव गौ० ब्र०) ।
-
स्वेदजम्
चतुर्विधाः प्राणिनः = जरायुजाण्डजस्वेदजोद्भिज्जाः । तत्र स्वेदजः
–
श्रमाद्युत्पन्नशरीरोदकाज्जातः । यथा - "अपि च चतुर्विधे भूतग्रामे जरायुजाण्डस्वेदभजः-
स्वेदजोद्भिज्जयोरन्तरेणैव ग्राम्यधर्ममुत्पत्तिदर्शनादाहुतिसंख्यानादरो भवति ।
एवमन्यत्रापि भविष्यति" (ब्र० सू० ३ । १ । २० शा० भा०) । यथा च - "आण्डजं
जीवजमुद्भिज्जनम्" – छा० ६।३।१ - इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः
कृतः प्रत्येतव्यः, उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् ।
स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः"
(ब्र० सू० ३/१/२१ शा० भा० ) । यथा च - स्वेदजानि स्वेदाज्जातानि यूकामशकादीनि
(वे० प० ७ १०) ।
-
हरिः
१ . इन्द्रियम् । यथा हरयो हरणादिन्द्रियाणि (बृ० आ० उ० २/५/१९
शा० भा०) । २. विष्णु: ३. इन्द्रः । ४. सिंहः । ५. सूर्य इत्यादयोऽनेकेऽर्थाः ।