This page has been fully proofread once and needs a second look.

५००
 
शावेदान्तकोशः
 
स्मरणमात्राभ्युपगमे रथं पश्यामि स्वप्ने
 
रथमद्राक्षमित्याद्यनुभवविरोधापत्तेः, 'अथ रथान्

रथयोगान् पथःसृजते' (बृ० उ० ४।३।१०) इति रथादिसृष्टिप्रतिपादकश्रुतिविरोधा-

पत्तेश्च। तस्माच्छुक्तिरूप्यवत् स्वप्नोलब्धरथादयोऽपि प्रातिभासिकाः यावत्

प्रतिभासमवतिष्ठन्ते । नंनु स्वप्ने रथाद्यधिष्ठानतयोपलभ्यमान- देशविशेषस्यापि

तदाऽसन्निकृष्टतयाऽनिर्वचनीयप्रातिभासिकदेशोऽभ्युपगन्तव्यः, तथा च रथाद्यध्यासः

· कुत्रेति चेत्, न । चैतन्यस्य स्वयंप्रकाशस्य रथाद्यधिष्ठानत्वाप्रतीयमानं रथाद्यस्तीत्येव

प्रतीयत इति सद्रूपेण प्रकाशमानं चैतन्यमेवाधिष्ठानम् । देशविशेषोऽपि चिदध्यस्तः

प्रातिभासिकः । रथादाविन्द्रियग्राह्यत्वमपि प्रातिभासिकम्, तदा सर्वेन्द्रियाणामुपरमात् ।

'अहं गजः' इत्यादिप्रतीत्यापादनन्तु पूर्ववन्निस्सनीयम् । स्वप्नगजादयः साक्षान्माया-

परिणामा इति केचित् ।अन्तःकरणद्वारा तत्परिणामा इत्यन्ये । ननु गजादेःशुद्धचैतन्याध्यस्तत्वे

इदानीमधिष्ठानसाक्षात्काराभावेन जागरणेऽपि स्वप्नोपलब्धगजादयोऽनुवर्तेरन् ।

उच्यते । कार्यविनाशो हि द्विविधः- कश्चिदुपादानेन सह, कश्चिद्विद्यमान एवोपादाने ।

आद्यो बाधः। द्वितीयस्तु निवृत्तिः । आद्यस्य कारणमधिष्ठानतत्त्वसाक्षात्कारः तेन

विनोपादानभूताया अविद्याया अनिवृत्तेः । द्वितीये विरोधिवृत्त्युत्पत्तिर्दोषनिवृत्तिश्च ।

तदिह ब्रह्मसाक्षात्काराभावात् स्वप्नप्रपञ्चोमाबाधि । मुसलप्रहारेण घटादिरिव विरोधि-

प्रत्ययान्तरोदयेन स्वप्नजनकीभूतनिद्रादिदोषनाशेन वा गजादिनिवृत्तौ को विरोधः ।

एवं च शुक्तिरूप्यस्य शुक्त्यवच्छिन्नचैतन्यनिष्ठतूलाविद्याकार्यत्वपक्षे शुक्तिरिति ज्ञानेन

तदज्ञानेन सह रजतस्य बाधः । मूलाविद्याकार्यत्वपक्षे तु मूलाविद्याया ब्रह्मतत्त्व-

साक्षात्कारमात्रनिवर्त्यतया शुक्तित्वज्ञानेनाऽनिर्वर्त्यतया रजतस्य तत्र शुक्तिज्ञानान्निवृत्तिमात्रं,

मुसलप्रहारेण घटस्येव । ननु शुक्तौ रजतस्य प्रतिभाससमये प्रातिभासिकत्त्वाभ्युपगमे

नेदं रजतमिति त्रैकालिकनिषेधज्ञानं न स्यात्, किन्त्विदानीमिदं न रजतमिति इदानीं

घटः श्यामो नेतिवदिति चेत्, न । न हि तत्र रजतत्वावच्छिनप्रतियोगिताको

निषेधधीविषयः । किन्तु लौकिकपारमार्थिकत्वावच्छिन्नप्रातिमासिकरजतप्रतियोगिताकः

व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाभ्युपगमात् (वे० प० १ प०) । यथा च -

इदमामनन्ति – स यत्र प्रस्वपिति (बृ० उ० ४।३।९) । इत्युपक्रम्य न तत्र रथा न

रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते ( बृ० उ० ४।३।१०)

इत्यादि । तत्र संशयः - किं प्रवोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्वित्

मायामयीति ।तत्र तावप्रतिपद्यते सन्ध्ये तथ्यरूपा सृष्टिरिति । सन्ध्यमिति स्वप्नस्थानमाचष्टे

वेदे प्रयोगदर्शनात् । ...... नैतदस्ति यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति । मायैव