2023-03-12 05:02:13 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
४९९
-
C
स्वाध्यायः - नियतस्वशाखीयवेदशास्त्रादीनां प्रतिदिनमध्ययनम् । इदं नित्यकर्म ।
यथा – "स्वाध्याय ऋग्वेदाद्यध्ययनमदृष्टार्थम्" (गी० १६/१ शा० भा०) । यथा
च – "ब्रह्मयज्ञस्य स्वाध्यायेन पृथक्करणात्" (आ० गि०) । यथा च - "स्वाध्यायो
वेदाध्ययनम्" (तत्रैव नी० क० ) । यथा च - "ब्रह्मयज्ञस्य स्वाध्यायपदेन पृथगुक्तेः ।
......स्वाध्यायो ब्रह्मयज्ञः अदृष्टार्थमृग्वेदाद्यध्ययनरूपो यज्ञशब्देन पञ्चविधमहा-
यज्ञोक्तिसम्भवेऽप्यसाधारण्येन ब्रह्मचारिधर्मत्वकथनार्थं पृथगुक्तिः (तत्रैव म० सू० ) ।
यथा च – "स्वाध्यायोऽदृष्टार्थे ऋग्वेदाद्यध्ययनं तदध्यापनं च ब्रह्मयज्ञः (तत्रैव
भाष्यो०) । यथा च - "स्वाध्यायो ब्रह्मयज्ञादिर्जपयज्ञः" (तत्रैव श्रीधरी)।
स्वापः- सुषुप्तिः । एवं जाग्रत्स्वप्नभोगद्वयेन श्रान्तस्य जीवस्य तदुभयकारण-
कर्मक्षये ज्ञानशक्त्यवच्छिन्नस्य सवासनान्तःकरणस्य कारणात्मनावस्थाने सति विश्राम-
स्थानं सुषुप्त्यवस्था । न किञ्चिदवेदिषम् इति कारणमात्रोपालम्भः सुषुप्तिः । तत्र
जाग्रत्स्वप्नभोग्यपदार्थज्ञानाभावेऽपि साक्ष्याकारं
सुखाकारमवस्थाऽज्ञानाकारं
चाविद्याया वृत्तित्रयमभ्युपेयते (सि० वि० ९) । सुषुप्तिः पुनः जाग्रत्स्वप्नसुषुप्तिभेदेन
त्रिविधा । यथा – अथवा अवस्थात्रयस्यापि त्रैविध्याङ्गीकारात् सुषुप्तावपि दुःखमुत्पद्यते ।
तथाहि – प्रमाज्ञानं जाग्रज्जाग्रत् । शुक्तिरजतादिविभ्रमो जाग्रत्स्वप्नः । श्रमादिना
स्तब्धीभावो जाग्रत्सुषुप्तिः । एवं स्वप्ने मन्त्रादिप्राप्तिः स्वप्नजाग्रत् । स्वप्नेऽपि स्वप्नो
मया दृष्ट इति बुद्धिः स्वप्नस्वप्नः । जाग्रद्दशायां कथयितुं न शक्यते स्वप्नावस्थायां
च यत् किंचिदनुभूयते तत्स्वप्नसुषुप्तिः । एवं सुषुप्त्यवस्थायामपि सात्विकी या
सुखाकारावृत्तिः सुषुप्तिजाग्रत् । यदनन्तरं सुखमहमस्वाप्सम् इति सा सुषुप्तिस्वप्नः।
एषा राजसीवृत्तिः । तदनन्तरं दुःखमहमस्वम्सम् । एषा तामसी वृत्तिः । सा सुषुप्तिसुषुप्तिः।
यथा च स्वाप्ययात् ब्र० सू० १ । १ ।९ इति सूत्रे शाङ्करभाष्ये- यत्रैतत् पुरुषः स्वपिति
नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेवं स्वपीतीत्याचक्षते
एवं ह्यपीतो भवति – छा० उ० ६।८।१ - इति एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य
लोकप्रसिद्धं नाम निर्वक्ति । स्वशब्देनेहात्मोच्यते । यः प्रकृतः सच्छब्दार्थवाच्यस्तमपीतो
भवत्यपि गतो भवतीत्यर्थः । अपिपूर्वस्येतेर्लयार्थत्वं प्रसिद्धम् । प्रभवाप्ययावित्युत्पत्ति-
प्रलययोः प्रयोगदर्शनात् । मन प्रचारोपाधिविशेषसम्बन्धादिन्द्रयान् गृह्णस्तदविशेषापन्नो
जीवो जागर्ति । तवासनाविशिष्टः स्वप्नान् पश्यन् मनः शब्दवाच्यो भवति । स
उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावात् स्वात्मनि प्राचीन इवेति - स्वं
ह्यपीतो भवति इत्युच्यते । विशदज्ञानार्थं सुषुप्तिशब्दो द्रष्टव्यः ।
-
स्वाप्नपदार्थप्रातिभासिकसृष्टिः - यथा- ननु स्वप्नस्थले पूर्वानुभूतरथादेः
स्मरणमात्रेणैव व्यवहारोपपत्तौ न रथादिसृष्टिकल्पनं गौरवादिति, चेत्, न । रथादेः