This page has not been fully proofread.

४९८
 
शावेदान्तकोशः
 
२. वैराजः । यथा - मोदते स्वर्गलोके वैराजे विरांडात्मस्वरूपप्रतिपत्या" (का० उ०
१।१८ शा० भा०)।
 
स्वर्गः - १ (क) सुखविशेष: (मु० ग०) । यथा यागात्स्वर्गो भवतीत्यादौ
स्वर्गशब्दस्यार्थः । यथा वा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्त इत्यादौ स्वर्शब्दस्यार्थः । इदं
च इच्छामात्रसाधनसाध्यं सुखमिति वदन्ति । अत्राम्नायते यत्र दुःखेन सम्भिन्नं न च
ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् (श्रुतिः) इति । अत्र
दुःखसमानकालीने सुखे नातिव्याप्तिः । (ख) अधर्मानारब्धदेहावच्छेद्यसुखम् ( ५०
च०) । २. पौराणिकास्तु देवानामावासस्थानं लोकविशेषः । तदुक्तं महाभारते -
उपरिष्टाच्च स्वर्लोको योऽयं स्वरिति संज्ञितः । उर्ध्वगः सत्पथः शश्वद्देवमात्रचरो मुने ।
नातप्ततपसः पुंसो न महायज्ञयाजिनः । नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गलाः
(न्यायकोशः) ।
 
स्वातन्त्र्यम् - ब्रह्मणोऽनेकासु शक्तिष्वेका नित्या शक्तिः स्वतन्त्रता । यथा -
सर्वोपेता च तदर्शनात् (ब्र० सू २।१।३०) । अत्र शा० भा० - सर्वशक्तियुता
परा देवतेत्यभ्युफ्गन्तव्यम् । यया जगद् विवर्तते यया च प्रभुर्जगत् सृजत्यवति संहरति
च । यथा - ईश्वरस्य षडङ्गानि पुराणोक्तानि - सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता
नित्यमलुप्तशक्तिः । अचिन्त्यशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्येति ।
अव्ययानि वायुपुराणे पठ्यन्ते-ज्ञानं विरागमैश्वर्यं तपः सत्यं क्षमा धृतिः ।
स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमेव च । अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ।
इति (ब्र० सू० भामतीमङ्गलाच० व० क० त०) । त्रिकदर्शने (प्रत्यभिज्ञादर्शने)
परमभट्टारकः शिवः स्वतन्त्रशक्त्यैव बिम्बं विना स्वभित्तौ जगत् प्रतिबिम्बयति
जगप्रतिभासयति । यथा- स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति (प्रत्यभिज्ञाहृदये
सू० २) । यथा, च.- स्वातन्त्र्यमहिमैवायं देवस्य यंदसौ पुनः । स्वं रूपं परिशुद्धं
सत् स्पृशत्यणुतामयः (तन्त्रालोके जि० ८/१०/१६३ ) । तत्र इच्छाज्ञानक्रियाभिः
तिसृभिः शक्तिभिः समन्वितः परमेश्वरः स्वातन्त्र्यमयोऽस्ति । यथा प्रत्यभिज्ञाहृदये-
चितिः स्वतन्त्रा विश्वसिद्धिहेतुः । स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति । यथा च-
अविद्या अनिर्वाच्या वैचित्र्यं चाधत्त इति व्याहतम् । परमेश्वरी शक्तिरेव इयमिति
हृदयावर्जकः क्रमः । तस्माद् अनपह्नवनीयः प्रकाशविमर्शात्मा संवित्स्वभावः
परमशिव: भगवान् स्वातन्त्र्यादेव प्रकाशते इत्ययं स्वातन्त्र्यवादः प्रोन्मीलितः
(प्रत्यभिज्ञाविवृतिविमर्शिन्याम्) ।
 
-
 
-