2023-03-26 06:45:26 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
४९७
यः सर्वं स्वयमेव भवति स ईश्वरः । यथा - "स्वयंभूः स्वयमेव
भवतीति येषामुपरि भवति यश्वोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः ।
स नित्यमुक्त ईश्वरो याथातथ्यतः व्यभजदित्यर्थ:" ( ई० उ० ८ शा० भा० ) ।
-
स्वरः
उद्गीथः सविता च । यथा - "उद्गीथाख्यमक्षरमोमित्येतदेष हि यस्मात्
स्वरन्नुच्चारयन्ननेकार्थत्वाद् धातूनाम् । अथवा स्वरन् गच्छन्निति । अतोऽसावुद्गीथः
सविता" (छा० उ० १ । ५ । १ शा० भा० ) ।
स्वरूपम्
स्वस्य आत्मनः रूपम् = ब्रह्मभावः । यथा - स्वस्वरूपावगतिर्मोक्षः ।
यथा च - १. स्वात्मकः पदार्थः । यथा घटस्वरूपं द्रव्यमित्यादौ स्वरूपशब्दस्यार्थः ।
काव्यज्ञास्तु २. स्वभावविशेषः (अमर० १ नाट्य० ३८) । ३. पण्डितः । ४. सुन्दरश्च
इत्याहुः (अमरः २ ।३।१३१) (न्या० को०)।
स्वरूपलक्षणम् - लक्षणं द्विविधम् स्वरूपलक्षणं तटस्थलक्षणं च । यथा-
स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं
स्वरूपलक्षणम्, स्वरूपलक्षण
लक्षणं द्विविधम् स्वरूपलक्षणं तटस्थलक्षणं च । यथा-
स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम्, यथा सत्यादिकं
ब्रह्मस्वरूपलक्षणम् (वे० प० ७ प०) । यथा च - बहु स्यां प्रजायेय (तै० उ० २।६) ।
इति चात्मविशेषेण वहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषत ।
तथा इदं सर्वमसृजत यदिदं किञ्च (तै० उ० २।६) । इति समस्तजगत्सृष्टिनिर्देशेन
प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टे । तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातं
तल्लक्षणमेवान्यत्रापि विज्ञायते - सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्, तदैक्षत बहु
स्यां प्रजायेयेति तत्तेजोऽसृजत (छा० उ० ६।२।१, ३) इति । तथा आत्मा वा इदमेक
एवाग्र आसीन्नान्यत् किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति (ऐ० उ०
१।१।१, २) । इति एवंजातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य
प्रतिवेदान्तमविगीतार्थत्वात् (ब्र० सू० १/४/१४ शा० भा०) । यथा च - "अतः
प्रकृष्टप्रकाशवत्स-कलेतरव्यावृत्तलक्ष्यबोधनसमर्थं स्वरूपलक्षणमेवेह तटस्थलक्षणद्वारा
सूत्रकृता निर्दिधारयिषितं, न तु तटस्थलक्षणमेव" (ब्र० सू० १/१/२ क० त०
प०) । यथा च - "सत्यज्ञानं सत्यज्ञानादिना च स्वरूपलक्षणेन विशेषतो विनिश्चितं
नमस्कारच्छलेन" (तै० उ० मंगलाच० २ शा० भा०. आ० टी०) ।
-
-
स्वर्गः
१. मोक्षः । यथा - "तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित
उर्ध्वं विमुक्ताः" (बृ० उ० ४।४।८) । ब्रह्मविद्याफलं मोक्षं स्वर्गं लोकं स्वर्गलोक-
शब्दस्त्रिविष्टपवाच्यपि सन्निह प्रकरणान्मोक्षाभिधायकः (तत्रैव शा० भा० ) ।