This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
अनुभवरूपश्च प्रज्ञानघन: ( मा० उ० ५) इत्यादि श्रुतेः । अनुभवामि इति व्यवहारस्तु

वृत्तिप्रतिबिम्बितचैतन्यमादायोपपद्यते (वे० प० ७ प० ) ।
 
४९६
 
-
 

 
स्वप्रकाशत्वम्, स्वप्रकाशत्व
यथा- एतेनात्मनोऽपि स्वप्रकाशत्वं व्याख्यातम् । तथाहि -

चिद्रूपत्वादकर्मत्वात् स्वयंज्योतिरिति श्रुतेः । आत्मनः स्वप्रकाशत्वं को निवारयितुं

क्षमः ॥ ३ । आत्मा संविद्रूपः संवित्कर्मतामन्तरेणापरोक्षत्वात् संवेदनवदिति प्राभाकारं

प्रत्यनुमानात् । घटतज्ज्ञानयोः सम्बन्धः आत्मनिष्ठः ज्ञाननिष्ठत्वात् पदविषयत्ववदिति

नैयायिकादीन् प्रत्यनुमानाद् आत्मनश्चिद्रूपत्वसिद्धिः ।......अथायं पुरुषः स्वयं

ज्योतिः इति श्रुतेश्चात्मा स्वप्रकाशः । .....तच्चात्मरूपम् अविद्यापरिकल्पित-

प्रपञ्चावभासकत्वाद् अविद्यातमोनिवर्तकत्वाच्च ज्योतिः शब्दाभिधेयम् । यथा -

भावरूपशार्वरादितमोनिवर्तनेन जगदवभासकमादित्यादिज्योतिरिति सिद्धम् (त० प्र०

आ० स्व०) । यथा च - "ननु परिणममानाविद्याधिष्ठानत्वे नोपादानत्वं वाच्यम्

अधिष्ठानं तु नावेद्यस्य, तद्वेदनार्थं प्रमाणापेक्षायामन्योन्याश्रयात् । न च

स्वप्रकाशतदपेक्षमेवाधिष्ठांनत्वमिति वाच्यम्, स्वप्रकाशताया वक्तुमशक्यत्वात् । तथा

हि किमिदं स्वप्रकाशत्वं वृत्त्यव्याप्यत्वं वा, फलाव्याप्यत्वं वा, अवेद्यत्वे

सत्यपरोक्षव्यवहारविषयत्वं वा तद्योग्यत्वं वा, तद्योग्यत्वात्यन्ताभावानाधिकरणत्वं वा ।

(इत्यादि । ततः परम्)। ......इति चेत्, न पञ्चमपक्षस्यैव क्षोदसहत्वात् (अ० सि०

ब्र० स्वप्न० ल०) ।
 
-
 

 
स्वभावः - , स्वभाव
स्वस्य = आत्मनो भावः सत्ता आध्यात्ममिति । यथा -

"स्वभावोऽध्यात्ममुच्यते आत्मानं देहमधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थंब्रह्मा-

वसानं वस्तुस्वभावोऽध्यात्ममुच्यतेऽध्यात्मशब्देनाभिधीयते" (गी० ८।३ शा० भा० ) ।

यथा च – "स्वकीयो भावः स्वभावः श्रोत्रादिकरणग्राम: स चात्मनि देहेऽ हङ्कार-

प्रत्ययवेद्यो वर्तत इत्यमुं प्रतिभासं व्यावर्त्य स्वभावपदं गृह्णाति स्वभाव इति । एवं

विग्रहपरिग्रहे स्वभावोऽध्यात्ममुच्यत इत्यस्यायमर्थो निष्पन्नो भवतीत्यनुवादपूर्वकं

कथयति । स्वभाव इति तस्यैव परस्येत्यादिनोक्तं न विस्मर्त्तव्यमिति विशिनष्टि -

परमार्थेति" (तत्रैव भाष्यो०) ।
 
-
 

 
स्वयंज्योतिः – स्वप्रकाशः स्वसंवेद्यः । यथा -, स्वयंज्योतिस्
स्वप्रकाशः स्वसंवेद्यः । यथा - स्वयंज्योति
ष्ट्वं नाम चैतन्यात्म-

स्वभावता (बृ० उ० ४ । ३ । २२ शा० भा० ) । विशदार्थज्ञानाय स्वप्रकाशशब्दो द्रष्टव्यः ।