2023-03-26 06:41:57 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
४९५
विषयनिरपेक्षवासनाजन्यज्ञानवान् । स्वप्नः स्थानमस्य तैजसस्य
स्वप्नस्थानः। जाग्रत्प्रज्ञाऽनेकसाधना बहिर्विषयेवावभासमाना मनः स्पन्दनमात्रा
सती तथाभूतं संस्कारं मनस्याधत्ते । तन्मनस्तथा संस्कृतं विचित्रित इव पटो
बाह्यसाधनानपेक्षाविद्याकामकर्मभिः प्रेर्यमाणं जाग्रवद् अवभासते (मा० उ० प्र०
१।४।२ शा० भा० ) ।
S
स्वप्नान्तिकम्
(बुद्धिप्रभेदः अविद्या ) । १. तत्कालोत्पन्नानुभवजनित-
संस्कारजन्यं ज्ञानम् । तदर्थस्तु स्वप्नान्तिकं स्वप्नस्यान्ते भवम् । स्वप्नानुभवजसंस्कारजम्
इति यावत् । इदं ज्ञानं स्वप्नावस्था जातानुभवजनितसंस्कारेण जायते । किं तु
स्मृत्यात्मकं न मानसमिति विशेष: (वै० वि० ९।२।८) । तथा च स्वप्नान्तिक-
स्वप्नज्ञानयोरेतावान् विशेषः । स्वप्नज्ञानं पूर्वानुभवजनितात्संस्कारादुत्पद्यते ।
स्वप्नान्तिकं तु तत्कालोत्पन्नानुभवजनितसंस्कारादेव । तदुक्तं प्रशस्तदेवाचार्यैः
अतीतज्ञानप्रत्यवेक्षणात् स्मृतिरेव (वै० उ०९।२।८) इति । अत्र सूत्रम् - स्वप्नान्तिकं
यथात्ममनःसंयोगविशेषसंस्कारोद्भवजन्यम्, तथा स्वप्नान्तिकाख्यं ज्ञानमपि (वै०
वि० ९/२१८) इति । ( न्या० को०)
स्वप्रकाशः
यथा- अथ कोऽयं स्वप्रकाशशब्दार्थः । किम् १. स्वश्चासौ
प्रकाशश्च स्वप्रकाशः। २. स्वस्य स्वयमेव प्रकाश इति वा । ३. सजातीयप्रकाशा-
प्रकाश्यं वा । ४. स्वसत्तायां प्रकाशव्यतिरेकविरहितत्वं वा ।५. स्वव्यवहारहेतुप्रकाशत्वं
वा । ६. ज्ञानाविषयत्वं वा । ७. ज्ञानाविषयत्वे सत्यपरोक्षत्वं वा । ८. व्यवहारविषयत्वे
सति ज्ञानाविषयत्वं वा । ९. स्वप्रतिबद्धव्यवहारे सजातीयपरानपेक्षत्वं वा । १०.
अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं वा । ११. तद्योग्यत्वं वा । नाद्यः वेद्यस्यापि
ज्ञानस्य स्वप्रकाशाभ्युपगमात् । तदेव न स्वप्रकाशलक्षणं पश्यामः । नापि
प्रमाणम् ।......अत्रोच्यते - अपरोक्षव्यवहृतेर्योग्यस्याधीपदस्य नः । सम्भवे स्वप्रकाशस्य
लक्षणासम्भवः कुतः ॥ १ । न तावत् स्वयंप्रकाशे लक्षणासम्भवः । अवेद्यत्वे सत्यपरोक्ष-
व्यवहारयोग्यतायास्तल्लक्षणत्वात् । अक्षमा भवतः केयं साधकत्वप्रकल्पने। किं
न पश्यसि संसारं तत्रैवाज्ञानकल्पितम् ॥२। ...प्रमाणमपि अनुभूतिः स्वयंप्रकाशा
अनुभूतित्वाद् यन्नैवं तन्नैवं यथा घट इत्यनुमानम् । तस्माद् विगलितसकलकलङ्कमनुभूतेः
स्वप्रकाशत्वानुमानमिति सिद्धम् (त० प्र० स्वप्र० नि०) । स च जीवः स्वयंप्रकाशः ।
स्वप्नावस्थामधिकृत्य अत्रायं पुरुषः स्वयं ज्योतिः (बृ० उ० ४।३।८) इति श्रुतेः ।
-
.....